अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 40
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
दे॒वो दे॒वान्म॑र्चयस्य॒न्तश्च॑रस्यर्ण॒वे। स॑मा॒नम॒ग्निमि॑न्धते॒ तं वि॑दुः क॒वयः॒ परे॑ ॥
स्वर सहित पद पाठदे॒व: । दे॒वान् । म॒र्च॒य॒सि॒ । अ॒न्त: । च॒र॒सि॒ । अ॒र्ण॒वे । स॒मा॒नम् । अ॒ग्निम् । इ॒न्ध॒ते॒ । तम् । वि॒दु॒: । क॒वय॑: । परे॑ ॥१.४०॥
स्वर रहित मन्त्र
देवो देवान्मर्चयस्यन्तश्चरस्यर्णवे। समानमग्निमिन्धते तं विदुः कवयः परे ॥
स्वर रहित पद पाठदेव: । देवान् । मर्चयसि । अन्त: । चरसि । अर्णवे । समानम् । अग्निम् । इन्धते । तम् । विदु: । कवय: । परे ॥१.४०॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 40
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४०−(देवः) बुद्धिमान् (देवान्) दिव्यगुणान् (मर्चयसि) मर्च शब्दे। शब्दयसि। उपदिशसि (अन्तः) मध्ये (चरसि) विचरसि (अर्णवे) समुद्रे (समानम्) सामान्यम् (अग्निम्) ज्ञानवन्तं परमेश्वरम् (इन्धते) दीप्यन्ते (तम्) प्रसिद्धम् (विदुः) जानन्ति (कवयः) मेधाविनः-निघ० ३।१५। (परे) श्रेष्ठाः ॥
इस भाष्य को एडिट करें