Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    उद्वाज॒ आ ग॒न्यो अ॒प्स्वन्तर्विश॒ आ रो॑ह॒ त्वद्यो॑नयो॒ याः। सोमं॒ दधा॑नो॒ऽप ओष॑धी॒र्गाश्चतु॑ष्पदो द्वि॒पद॒ आ वे॑शये॒ह ॥

    स्वर सहित पद पाठ

    उत् । वाज॑: । आ । ग॒न् । य: । अ॒प्ऽसु । अ॒न्त: । विश॑: । आ । रो॒ह॒ । त्वत्ऽयो॑नय: । या: । सोम॑म् । दधा॑न: । अ॒प: । ओष॑धी: । गा: । चतु॑:ऽपद: । द्वि॒ऽपद॑: । आ । वे॒श॒य॒ । इह॥१.२॥


    स्वर रहित मन्त्र

    उद्वाज आ गन्यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः। सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥

    स्वर रहित पद पाठ

    उत् । वाज: । आ । गन् । य: । अप्ऽसु । अन्त: । विश: । आ । रोह । त्वत्ऽयोनय: । या: । सोमम् । दधान: । अप: । ओषधी: । गा: । चतु:ऽपद: । द्विऽपद: । आ । वेशय । इह॥१.२॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 2

    टिप्पणीः - २−(उत्) उत्तमतया (वाजः) वाज-अर्शआद्यच्। बलवान् परमेश्वरः (आगन्) अ० ३।४।१। आगमत् (यः) (अप्सु) म० १। प्रजासु (अन्तः) मध्ये (विशः) प्रजाः (आरोह) अधितिष्ठ (त्वद्योनयः) वहिश्रिश्रुयु०। उ० ४।५१। यु मिश्रणामिश्रणयोः-नि। योनिर्गृहनाम-निघ० ३।४। त्वया सह मिश्रिताः (याः) प्रजाः (सोमम्) ऐश्वर्यम् (दधानः) धारयन् (अपः) आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ० ४।२०८। आप्लृ व्याप्तौ-असुन् ह्रस्वश्च। कर्म-निघ० २।१। (ओषधीः) अन्नसोमलतादिपदार्थान् (गाः) गवादिपशून् (चतुष्पदः) पादचतुष्टयोपेतान् (द्विपदः) पादद्वयोपेतान् (आवेशय) आनीय प्रवेशय (इह) अत्र। प्रजासु ॥

    इस भाष्य को एडिट करें
    Top