1896 परिणाम मिले!
- त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये। दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥ - Atharvaveda/20/37/0/2
- त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्नुभ्नाः। यद्ध शूर वृषमणः पराचैर्वि दस्यूँर्योनावकृतो वृथाषाट् ॥ - Rigveda/1/63/4
- त्वं ह त्यदिन्द्र सप्त युध्यन्पुरो वज्रिन्पुरुकुत्साय दर्दः। बर्हिर्न यत्सुदासे वृथा वर्गंहो राजन्वरिवः पूरवे कः ॥ - Rigveda/1/63/7
- त्वं ह त्यदिन्द्रारिषण्यन्दृळ्हस्य चिन्मर्तानामजुष्टौ। व्य१स्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान् ॥ - Rigveda/1/63/5
- त्वं ह त्यदृणया इन्द्र धीरोऽसिर्न पर्व वृजिना शृणासि । प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥ - Rigveda/10/89/8
- त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ । त्वं सिन्धूँरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥ - Rigveda/8/96/18
- त्वं ह नु त्यददमयो दस्यूँरेकः कृष्टीरवनोरार्याय। अस्ति स्विन्नु वीर्यं१ तत्त इन्द्र न स्विदस्ति तदृतुथा वि वोचः ॥३॥ - Rigveda/6/18/3
- त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत । ऋतावा यज्ञियो भुव: ॥ - Rigveda/8/75/3
- त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे। त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥१॥ - Rigveda/6/2/1
- त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ। अधा ते सुम्नमीमहे ॥ - Atharvaveda/20/108/0/2
- त्वं हि न: पिता वसो त्वं माता शतक्रतो बभूविथ । अधा ते सुम्नमीमहे ॥ - Rigveda/8/98/11
- त्वं हि नस्तन्व: सोम गोपा गात्रेगात्रे निषसत्था नृचक्षा: । यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्य: ॥ - Rigveda/8/48/9
- त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः। विश्वचर्षणिः सहुरिः सहीयानस्मास्वोजः पृतनासु धेहि ॥ - Atharvaveda/4/32/0/4
- त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः । विश्वचर्षणि: सहुरि: सहावानस्मास्वोज: पृतनासु धेहि ॥ - Rigveda/10/83/4
- त्वं हि मानुषे जनेऽग्ने सुप्रीत इध्यसे। स्रुचस्त्वा यन्त्यानुषक्सुजात सर्पिरासुते ॥२॥ - Rigveda/5/21/2
- त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः । तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥ - Rigveda/8/61/14
- त्वं हि विश्वतोमुख विश्वतः परिभूरसि। अप नः शोशुचदघम् ॥ - Atharvaveda/4/33/0/6
- त्वं हि विश्वतोमुख विश्वत: परिभूरसि। अप न: शोशुचदघम् ॥ - Rigveda/1/97/6
- त्वं हि वृत्रहन्नेषां पाता सोमानामसि । उप नो हरिभिः सुतम् ॥ - Rigveda/8/93/33
- त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि । हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥ - Rigveda/8/98/6
- त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि। हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥ - Atharvaveda/20/64/0/3
- त्वं हि शूर: सनिता चोदयो मनुषो रथम्। सहावान्दस्युमव्रतमोष: पात्रं न शोचिषा ॥ - Rigveda/1/175/3
- त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः। तव द्यावापृथिवी पर्वतासोऽनु व्रताय निमितेव तस्थुः॥ - Rigveda/3/30/4
- त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे । स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि ॥ - Rigveda/8/90/4
- त्वं हि सुप्रतूरसि त्वं नो गोमतीरिष: । महो रायः सातिमग्ने अपा वृधि ॥ - Rigveda/8/23/29
- त्वं हि सोम वर्धयन्त्सुतो मदाय भूर्णये । वृषन्त्स्तोतारमूतये ॥ - Rigveda/9/51/4
- त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः । स्तोतॄणामुत भद्रकृत् ॥ - Rigveda/8/14/11
- त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः। स्तोतॄणामुत भद्रकृत् ॥ - Atharvaveda/20/29/0/1
- त्वं होता मनुर्हितो वह्निरासा विदुष्टरः। अग्ने यक्षि दिवो विशः ॥९॥ - Rigveda/6/16/9
- त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि। सेमं नो अध्वरं यज॥ - Rigveda/1/14/11
- त्वं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु। पावकया जुह्वा३ वह्निरासाग्ने यजस्व तन्वं१ तव स्वाम् ॥२॥ - Rigveda/6/11/2
- त्वं ह्य१ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । अमृतत्वाय घोषय: ॥ - Rigveda/9/108/3
- त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्त्सता । सखा सख्या समिध्यसे ॥ - Rigveda/8/43/14
- त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना। एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥ - Rigveda/1/144/6
- त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता। त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥१॥ - Rigveda/6/1/1
- त्वं ह्या३ङ्ग दैव्यं पवमान जनिमानि द्युमत्तमः । अमृतत्वाय घोषयन् ॥५८३॥ - Samveda/583
- त्वं ह्येक ईशिष इन्द्र वाजस्य गोमतः। स नो यन्धि महीमिषम् ॥७॥ - Rigveda/4/32/7
- त्वं ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ - Rigveda/8/61/7
- त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि। मो षु पणीँरभ्येतावतो भून्मा त्वा वोचन्नराधसं जनासः ॥ - Atharvaveda/5/11/0/7
- त्वं ह्यङ्ग वरुण स्वधावन्विश्वा वेत्थ जनिमा सुप्रणीते। किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥ - Atharvaveda/5/11/0/5
- त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः। तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥ - Atharvaveda/12/1/0/15
- त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः। त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥ - Atharvaveda/20/30/0/5
- त्वंत्वमहर्यथा उपस्तुत: पूर्वेभिरिन्द्र हरिकेश यज्वभिः । त्वं हर्यसि तव विश्वमुक्थ्य१मसामि राधो हरिजात हर्यतम् ॥ - Rigveda/10/96/5
- त्वदग्ने काव्या त्वन्मनीषास्त्वदुक्था जायन्ते राध्यानि। त्वदेति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥३॥ - Rigveda/4/11/3
- त्वद् विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः। श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम् ॥१॥ - Rigveda/6/13/1
- त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः। त्वं देहि सहस्रिणं रयिं नोऽद्रोघेण वचसा सत्यमग्ने॥ - Rigveda/3/14/6
- त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि। वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ॥३॥ - Rigveda/7/5/3
- त्वद्भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि। द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते ॥२॥ - Rigveda/6/31/2
- त्वद्वाजी वाजंभरो विहाया अभिष्टिकृज्जायते सत्यशुष्मः। त्वद्रयिर्देवजूतो मयोभुस्त्वदाशुर्जूजुवाँ अग्ने अर्वा ॥४॥ - Rigveda/4/11/4
- त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः। वैश्वानर त्वमस्मासु धेहि वसूनि राजन्त्स्पृहयाय्याणि ॥३॥ - Rigveda/6/7/3