580 परिणाम मिले!
- द्यौर्धेनुस्तस्या आदित्यो वत्सः। सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम्। आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥ - Atharvaveda/4/39/0/6
- द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम्। उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥ - Atharvaveda/9/10/0/12
- द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान्। तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥१॥ - Rigveda/6/20/1
- द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम्। उत्तानयोश्चम्वो३र्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥ - Rigveda/1/164/33
- द्यौर्व: पिता पृथिवी माता सोमो भ्रातादिति: स्वसा। अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम् ॥ - Rigveda/1/191/6
- द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय। यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः॥ - Rigveda/3/6/3
- द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः । मा दुर्विदत्रा निॠतिर्न ईशत तद्देवानामवो अद्या वृणीमहे ॥ - Rigveda/10/36/2
- द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन्दक्षिणया पिपर्तु। अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥ - Atharvaveda/6/53/0/1
- द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः। अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥ - Atharvaveda/12/1/0/53
- द्यौश्चिदस्यामवाँ अहेः स्वनादयोयवीद्भियसा वज्र इन्द्र ते। वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ॥ - Rigveda/1/52/10
- द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने। यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥ - Atharvaveda/2/28/0/4
- द्यौस्ते पृथिव्यन्तरिक्षँवायुश्छिद्रम्पृणातु ते । सूयस्ते नक्षत्रैः सह लोकङ्कृणोतु साधुया ॥ - Yajurveda/23/43
- द्यौस्ते पृष्ठम्पृथिवी सधस्थमात्मान्तरिक्षँ समुद्रो योनिः । विख्याय चक्षुषा त्वमभि तिष्ठ पृतन्यतः ॥ - Yajurveda/11/20
- द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥ - Rigveda/10/123/8
- द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥१८४८॥ - Samveda/1848
- द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्या: । नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥ - Rigveda/8/96/14
- द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः। नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥ - Atharvaveda/20/137/0/8
- द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः। समानंयोनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥ - Atharvaveda/18/4/0/28
- द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमञ्च योनिमनु यश्च पूर्वः । समानँयोनिमनु सञ्चरन्तन्द्रप्सञ्जुहोम्यनु सप्त होत्राः ॥ - Yajurveda/13/5
- द्रप्सश्चस्कन्द प्रथमाँ अनु द्यूनिमं च योनिमनु यश्च पूर्व: । समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्रा: ॥ - Rigveda/10/17/11
- द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ। यत्सीमञ्जन्ति पूर्व्यं हर्विर्भिरा बन्धुरेव तस्थतुर्दुरोणे॥ - Rigveda/3/14/3
- द्रविणोदा ददातु नो वसूनि यानि शृण्विरे। देवेषु ता वनामहे॥ - Rigveda/1/15/8
- द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत्। द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायु: ॥ - Rigveda/1/96/8
- द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे। यज्ञेषु देवमीळते॥ - Rigveda/1/15/7
- द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रादृतुभिरिष्यत ॥ - Yajurveda/26/22
- द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत। नेष्ट्रादृतुभिरिष्यत॥ - Rigveda/1/15/9
- द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः । स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति ॥ - Rigveda/9/86/14
- द्रापे अन्धसस्पते दरिद्र नीललोहित । आसाम्प्रजानामेषाम्पशूनाम्मा भेर्मा रोङ्मो च नः किञ्चनाममत् ॥ - Yajurveda/16/47
- द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव । पूतम्पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः ॥ - Yajurveda/20/20
- द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव। पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥ - Atharvaveda/6/115/0/3
- द्रुहं जिघांसन्ध्वरसमनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका। ऋणा चिद्यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥७॥ - Rigveda/4/23/7
- द्रुहो निषत्ता पृशनी चिदेवै: पुरू शंसेन वावृधुष्ट इन्द्रम् । अभीवृतेव ता महापदेन ध्वान्तात्प्रपित्वादुदरन्त गर्भा: ॥ - Rigveda/10/73/2
- द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः। सहसस्पुत्रो अद्भुतः॥ - Rigveda/2/7/6
- द्वयाँ अग्ने रथिनो विंशतिं गा वधूमन्तो मघवा मह्यं सम्राट्। अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥८॥ - Rigveda/6/27/8
- द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥ - Rigveda/1/164/20
- द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥ - Atharvaveda/9/9/0/20
- द्वादश द्यून्यदगोह्यस्यातिथ्ये रणन्नृभवः ससन्तः। सुक्षेत्राकृण्वन्ननयन्त सिन्धून्धन्वातिष्ठिन्नोषधीर्निम्नमापः ॥७॥ - Rigveda/4/33/7
- द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत। तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥ - Atharvaveda/10/8/0/4
- द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत। तस्मिन्त्साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न चलाचलास: ॥ - Rigveda/1/164/48
- द्वादश वा एता रात्रीर्व्रत्या आहुः प्रजापतेः। तत्रोप ब्रह्म यो वेद तद्वा अनडुहो व्रतम् ॥ - Atharvaveda/4/11/0/11
- द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि। ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥ - Atharvaveda/6/113/0/3
- द्वादशर्चेभ्यः स्वाहा ॥ - Atharvaveda/19/23/0/9
- द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य। आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥ - Rigveda/1/164/11
- द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य। आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥ - Atharvaveda/9/9/0/13
- द्वारो देवीरन्वस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥ - Atharvaveda/5/27/0/7
- द्वारो देवीरन्वस्य विश्वे व्रता ददन्तेऽअग्नेः । उरुव्यचसो धाम्ना पत्यमानाः ॥ - Yajurveda/27/16
- द्वाविमौ वातौ वात आ सिन्धोरा परावत: । दक्षं ते अन्य आ वातु परान्यो वातु यद्रप: ॥ - Rigveda/10/137/2
- द्वाविमौ वातौ वात आ सिन्धोरा परावतः। दक्षं ते अन्य आवातु व्यन्यो वातु यद्रपः ॥ - Atharvaveda/4/13/0/2
- द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः। अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम्। प्रियाँ अपिधीँर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥ - Rigveda/1/127/7
- द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतम् ॥१७९१॥ - Samveda/1791