Loading...

171 परिणाम मिले!

  • भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् । सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥ - Rigveda/10/3/3
  • भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् । सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥१५४८॥ - Samveda/1548
  • भद्रो मेसि प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि । मा त्वा परिपरिणो विदन्मा त्वा परिपन्थिनो विदन्मा वृका अघायवो विदन् । श्येनो भूत्वा परा पत यजमानस्य गृहान्गच्छ तन्नौ सँस्कृतम् ॥ - Yajurveda/4/34
  • भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि। तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥५॥ - Rigveda/4/26/5
  • भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य। अग्ने वरेण्यं वसु ॥३३॥ - Rigveda/6/16/33
  • भरद्वाजायाव धुक्षत द्विता। धेनुं च विश्वदोहसमिषं च विश्वभोजसम् ॥१३॥ - Rigveda/6/48/13
  • भरामेध्मं कृणवामा हवींषि ते चितयन्त: पर्वणापर्वणा वयम्। जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥ - Rigveda/1/94/4
  • भरामेध्मं कृणवामा हवीꣳषि ते चितयन्तः पर्वणापर्वणा वयम् । जीवातवे प्रतराꣳ साधया धियोऽग्ने सख्ये म रिषामा वयं तव ॥१०६५॥ - Samveda/1065
  • भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये । गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे ॥ - Rigveda/10/100/2
  • भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनीः। यस्य स्थ तमत्त यो वः प्राहैत्तमत्त स्वा मांसान्यत्त ॥ - Atharvaveda/2/24/0/8
  • भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम्। विश्वा इदर्यो अभिदिप्स्वो३मृधो बृहस्पतिर्वि ववर्हा रथाँइव॥ - Rigveda/2/23/13
  • भरेष्विन्द्रं सुहवं हवामहेंऽहोमुचं सुकृतं दैव्यं जनम् । अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुत: स्वस्तये ॥ - Rigveda/10/63/9
  • भर्गो ह नामोत यस्य देवाः स्व१र्ण ये त्रिषधस्थे निषेदुः । अग्निर्ह नामोत जातवेदाः श्रुधी नो होतॠतस्य होताध्रुक् ॥ - Rigveda/10/61/14
  • भव एनमिष्वासःप्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो नभवो नेशानः ॥ - Atharvaveda/15/5/0/2
  • भव राजन्यजमानाय मृड पशूनां हि पशुपतिर्बभूथ। यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ॥ - Atharvaveda/11/2/0/28
  • भवतन्नः समनसौ सचेतसावरेपसौ । मा यज्ञँ हिँसिष्टंम्मा यज्ञपतिञ्जातवेदसौ शिवौ भवतमद्य नः ॥ - Yajurveda/5/3
  • भवतन्नः समनसौ सचेतसावरेपसौ । मा यज्ञँ हिँसिष्टम्मा यज्ञपतिञ्जातवेदसौ शिवौ भवतमद्य नः ॥ - Yajurveda/12/60
  • भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् ॥ - Atharvaveda/13/4/0/54
  • भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीदभिमातिर्जनानाम् । शूर इव धृष्णुश्च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥ - Rigveda/10/69/5
  • भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः। पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः॥ - Rigveda/3/18/1
  • भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः । रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो३ अप्रयुच्छन् ॥ - Rigveda/10/7/7
  • भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथा:। अधा ते विष्णो विदुषा चिदर्ध्य: स्तोमो यज्ञश्च राध्यो हविष्मता ॥ - Rigveda/1/156/1
  • भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म। उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥ - Rigveda/1/58/9
  • भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः। वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम् ॥७॥ - Rigveda/7/32/7
  • भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय। ताभ्यां नमो यतमस्यां दिशीतः ॥ - Atharvaveda/11/2/0/14
  • भवाशर्वावस्यतां पापकृते कृत्याकृते। दुष्कृते विद्युतं देवहेतिम् ॥ - Atharvaveda/10/1/0/23
  • भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः। इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः ॥ - Atharvaveda/11/6/0/9
  • भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥ - Atharvaveda/4/28/0/1
  • भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम्। प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥ - Atharvaveda/11/2/0/1
  • भवेम शरदः शतम् ॥ - Atharvaveda/19/67/0/6
  • भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम्। तस्मै नमो यतमस्यां दिशीतः ॥ - Atharvaveda/11/2/0/27
  • भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः। पुच्छं वातस्य देवस्य तेन धूनोत्योषधीः ॥ - Atharvaveda/9/4/0/13
  • भायै दार्वाहारम्प्रभायाऽअग्न्येधम्ब्रध्नस्य विष्टपायाभिषेक्तारँवर्षिष्ठाय नाकाय परिवेष्टारन्देवलोकाय पेशितारम्मनुष्यलोकाय प्रकरितारँ सर्वेभ्यो लोकेभ्योऽउपसेक्तारमवऋत्यै बधायोपमन्थितारम्मेधाय वासःपल्पूलीम्प्रकामाय रजयित्रीम् ॥ - Yajurveda/30/12
  • भारती पवमानस्य सरस्वतीळा मही । इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः ॥ - Rigveda/9/5/8
  • भारतीळे सरस्वति या व: सर्वा उपब्रुवे। ता नश्चोदयत श्रिये ॥ - Rigveda/1/188/8
  • भास्वती नेत्री सूनृतानां दिवः स्तवे दुहिता गोतमेभिः। प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्राँ उप मासि वाजान् ॥ - Rigveda/1/92/7
  • भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः। प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥ - Rigveda/1/113/4
  • भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो। अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत्। महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥ - Rigveda/1/130/7
  • भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः। वधीद्वृत्रं वज्रेण मन्दसानः सरन्नापो जवसा हतवृष्णीः ॥३॥ - Rigveda/4/17/3
  • भिनद्बलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत्। रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इन्द्रश्चकार॥ - Rigveda/2/15/8
  • भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे। उद्यन्त्वचमिव भूम्याः शिर एषां वि पातय ॥ - Atharvaveda/19/28/0/4
  • भिन्द्धि दर्भ सपत्नान्मे भिन्द्धि मे पृतनायतः। भिन्द्धि मे सर्वान्दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥ - Atharvaveda/19/28/0/5
  • भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । वसु स्पार्हं तदा भर ॥१०७०॥ - Samveda/1070
  • भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । वसु स्पार्हं तदा भर ॥१३४॥ - Samveda/134
  • भिन्धि विश्वा अप द्विषः बाधो जही मृधः। वसु स्पार्हं तदा भर ॥ - Atharvaveda/20/43/0/1
  • भिन्धि विश्वा अप द्विष: परि बाधो जही मृध: । वसु स्पार्हं तदा भर ॥ - Rigveda/8/45/40
  • भीताय नाधमानाय ऋषये सप्तवध्रये। मायाभिरश्विना युवं वृक्षं सं च वि चाचथः ॥६॥ - Rigveda/5/78/6
  • भीमा इन्द्रस्य हेतयः शतं ऋष्टीरयस्मयीः। ताभिर्हविरदान्गन्धर्वानवकादान्व्यृषतु ॥ - Atharvaveda/4/37/0/8
  • भीमा इन्द्रस्य हेतयः शतं ऋष्टीर्हिरण्ययीः। ताभिर्हविरदान्गन्धर्वानवकादान्व्यृषतु ॥ - Atharvaveda/4/37/0/9
  • भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान्। इन्द्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघान ॥४॥ - Rigveda/7/21/4
Top