Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 10
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    उत्त॑रं रा॒ष्ट्रं प्र॒जयो॑त्त॒राव॑द्दि॒शामुदी॑ची कृणवन्नो॒ अग्र॑म्। पाङ्क्तं॒ छन्दः॒ पुरु॑षो बभूव॒ विश्वै॑र्विश्वा॒ङ्गैः स॒ह सं भ॑वेम ॥

    स्वर सहित पद पाठ

    उत्त॑रम् । रा॒ष्ट्रम् । प्र॒ऽजया॑ । उ॒त्त॒रऽव॑त् । दि॒शाम् । उदी॑ची । कृ॒ण॒व॒त् । न॒: । अग्र॑म् । पाङ्क्त॑म् । छन्द॑: । पुरु॑ष: । ब॒भू॒व॒ । विश्वै॑ । वि॒श्व॒ऽअ॒ङ्गै: । स॒ह । सम् । भ॒वे॒म॒ ॥३.१०॥


    स्वर रहित मन्त्र

    उत्तरं राष्ट्रं प्रजयोत्तरावद्दिशामुदीची कृणवन्नो अग्रम्। पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम ॥

    स्वर रहित पद पाठ

    उत्तरम् । राष्ट्रम् । प्रऽजया । उत्तरऽवत् । दिशाम् । उदीची । कृणवत् । न: । अग्रम् । पाङ्क्तम् । छन्द: । पुरुष: । बभूव । विश्वै । विश्वऽअङ्गै: । सह । सम् । भवेम ॥३.१०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 10

    टिप्पणीः - १०−(उत्तरम्) उत्तमतरम् (राष्ट्रम्) राज्यम् (प्रजया) प्रजासमूहेन सह (उत्तरावत्) मतौ बह्वचोऽनजिरादीनाम्। पा० ६।–३।११९। इति दीर्घः। अधिकोत्तमव्यवहारयुक्तम् (दिशाम्) दिशानां मध्ये (उदीची) अ० ३।२७।४। वामभागवर्तमाना दिशा (कृणवत्) कुर्यात् (नः) अस्माकम् (अग्रम्) प्रधानम् (पाङ्क्तम्) पचि विस्तारे व्यक्तीकरणे च−क्तिन्। पङ्क्ति−अण्। पङ्क्त्या विस्तारेण गौरवेण वा युक्तम् (छन्दः) छदि आवरणे−असुन्। स्वातन्त्र्यम् (पुरुषः) मनुष्यः (बभूव) भू प्राप्तौ। प्राप (विश्वैः) सर्वैर्विद्वद्भिः (विश्वाङ्गैः) सर्वोपाययुक्तैः (सह) (संभवेम) शक्ता भवेम ॥

    इस भाष्य को एडिट करें
    Top