अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 14
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
अ॒यं ग्रावा॑ पृ॒थुबु॑ध्नो वयो॒धाः पू॒तः प॒वित्रै॒रप॑ हन्तु॒ रक्षः॑। आ रो॑ह॒ चर्म॒ महि॒ शर्म॑ यच्छ॒ मा दंप॑ती॒ पौत्र॑म॒घं नि गा॑ताम् ॥
स्वर सहित पद पाठअ॒यम् । ग्रावा॑ । पृ॒थुऽबु॑ध्न: । व॒य॒:ऽधा: । पू॒त: । प॒वित्रै॑: । अप॑ । ह॒न्तु॒ । रक्ष॑: । आ । रो॒ह॒ । चर्म॑ । महि॑ । शर्म॑ । य॒च्छ॒ । मा । दंप॑ती॒ इति॒ दम्ऽप॑ती । पौत्र॑म् । अ॒घम् । नि । गा॒ता॒म् ॥३.१४॥
स्वर रहित मन्त्र
अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः। आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रमघं नि गाताम् ॥
स्वर रहित पद पाठअयम् । ग्रावा । पृथुऽबुध्न: । वय:ऽधा: । पूत: । पवित्रै: । अप । हन्तु । रक्ष: । आ । रोह । चर्म । महि । शर्म । यच्छ । मा । दंपती इति दम्ऽपती । पौत्रम् । अघम् । नि । गाताम् ॥३.१४॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(अयम्) (ग्रावा) अ० ३।१०।५। गॄ विज्ञापे स्तुतौ च−क्वनिप्। शास्त्रोपदेशकः पण्डितः (पृथुबुध्नः) इण्शिञ्जिदीङुष्यविभ्यो नक्। उ० ३।२। बुध ज्ञाने−नक्। विस्तृतबोधयुक्तः (वयोधाः) जीवनधारकः (पूतः) शोधितः (पवित्रैः) शुद्धव्यवहारैः (अप हन्तु) विनाशयतु (रक्षः) राक्षसम्। विघ्नम् (आ रोह) अधितिष्ठ (चर्म) ज्ञानम् (महि) महत् (शर्म) सुखम् (यच्छ) देहि (दम्पती) जायापती (पौत्रम्) पुत्रसम्बन्धि (अघम्) दुःखम् (मा नि गाताम्) इण् गतौ−लुङ्। नैव प्राप्नुताम् ॥
इस भाष्य को एडिट करें