अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 38
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उपा॑स्तरी॒रक॑रो लो॒कमे॒तमु॒रुः प्र॑थता॒मस॑मः स्व॒र्गः। तस्मि॑ञ्छ्रयातै महि॒षः सु॑प॒र्णो दे॒वा ए॑नं दे॒वता॑भ्यः॒ प्र य॑च्छान् ॥
स्वर सहित पद पाठउप॑ । अ॒स्त॒री॒: । अक॑र: । लो॒कम् । ए॒तम् । उ॒रु: । प्र॒थ॒ता॒म् । अस॑म: । स्व॒:ऽग: । तस्मि॑न् । श्र॒या॒तै॒ । म॒हि॒ष: । सु॒ऽप॒र्ण: । दे॒वा: । ए॒न॒म् । दे॒वता॑भ्य: । प्र । य॒च्छा॒न् ॥३.३८॥
स्वर रहित मन्त्र
उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः। तस्मिञ्छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यच्छान् ॥
स्वर रहित पद पाठउप । अस्तरी: । अकर: । लोकम् । एतम् । उरु: । प्रथताम् । असम: । स्व:ऽग: । तस्मिन् । श्रयातै । महिष: । सुऽपर्ण: । देवा: । एनम् । देवताभ्य: । प्र । यच्छान् ॥३.३८॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 38
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३८−(उप अस्तरीः) विस्तारितवानसि (अकरः) कृतवानसि (लोकम्) दर्शनीयम् (एतम्) पुरुषम् (उरुः) विस्तीर्णः (प्रथताम्) प्रख्यातो भवतु (असमः) षम वैकल्ये−अच्। वैकल्यरहितः (स्वर्गः) सुखप्रापको व्यवहारः (तस्मिन्) सुखव्यवहारे (श्रयातै) श्रिञ् सेवायाम्−लेट्। श्रयतु। सेवताम् (महिषः) अविमह्योष्टिषच्। उ० १।४५। मह पूजायाम्−टिषच्। महान्। पूजनीयः (सुपर्णः) पॄ पालनपूरणयोः−न। बहुपूर्तिमान् (देवाः) विद्वांसः (एनम्) सुखव्यवहारम् (देवताभ्यः) मोदानां प्राप्तये (प्र यच्छान्) लेटि रूपम्। प्र यच्छन्तु। ददतु ॥
इस भाष्य को एडिट करें