Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 55
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्र्यवसाना सप्तपदा शङ्कुमत्यतिजागतशाक्वरातिशाक्वरधार्त्यगर्भातिधृतिः सूक्तम् - स्वर्गौदन सूक्त

    प्राच्यै॑ त्वा दि॒शे॒ग्नयेऽधि॑पतयेऽसि॒ताय॑ रक्षि॒त्र आ॑दि॒त्यायेषु॑मते। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥

    स्वर सहित पद पाठ

    प्राच्यै॑ । त्वा॒ । दि॒शे । अ॒ग्नये॑ । अधि॑ऽपतये । अ॒सि॒ताय॑ । र॒क्षि॒त्रे । आ॒दि॒त्याय॑ । इषु॑ऽमते । ए॒तम् । परि॑। द॒द्म॒: । तम् । न॒: । गो॒पा॒य॒त॒ ।आ । अ॒स्माक॑म् । आऽए॑तो: । दि॒ष्टम् । न॒: । अत्र॑ । ज॒रसे॑ । नि । ने॒ष॒त् । ज॒रा । मृ॒त्यवे॑ । परि॑ । न॒:। द॒दा॒तु॒ । अथ॑ । प॒क्वेन॑ । स॒ह । सम् । भ॒वे॒म॒ ॥३.५५॥


    स्वर रहित मन्त्र

    प्राच्यै त्वा दिशेग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते। एतं परि दद्मस्तं नो गोपायतास्माकमैतोः। दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥

    स्वर रहित पद पाठ

    प्राच्यै । त्वा । दिशे । अग्नये । अधिऽपतये । असिताय । रक्षित्रे । आदित्याय । इषुऽमते । एतम् । परि। दद्म: । तम् । न: । गोपायत ।आ । अस्माकम् । आऽएतो: । दिष्टम् । न: । अत्र । जरसे । नि । नेषत् । जरा । मृत्यवे । परि । न:। ददातु । अथ । पक्वेन । सह । सम् । भवेम ॥३.५५॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 55

    टिप्पणीः - ५५−(प्राच्यै दिशे) अ० ३।२७।१। क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इति चतुर्थी। प्राचीं पूर्वामभिमुखीभूतां वा दिशां गन्तुम् (त्वा) त्वां जीवात्मानम् (अग्नये) ज्ञानस्वरूपाय (अधिपतये) अधिष्ठात्रे (असिताय) अबद्धाय (रक्षित्रे) रक्षकाय परमेश्वराय (आदित्याय) अ० १।९।१। सूर्यतापं निवारयितुम् (इषुमते) ईषेः किच्च। उ० १।१३। ईष गतौ हिंसायां च−उ, कित्। इषुरीषतेर्गतिकर्मणो वधकर्मणो वा−निरु० ९।१८। बाणवन्तं हिंसावन्तं वा निवारयितुम् (एतम्) आत्मानम् (परिदद्मः) समर्पयामः (तम्) जीवात्मानम् (नः) अस्मभ्यम् (गोपायत) रक्षत हे विद्वांसः (आ) समन्तात् (अस्माकम्) (ऐतोः) कमिमनिजनि०। उ० १।७३। आ+इण् गतौ−तु। चतुर्थ्यर्थे बहुलं छन्दसि। पा० २।३।६२। चतुर्थ्यर्थे षष्ठी। समन्ताद् गत्यै (दिष्टम्) नियतं विहितं कर्म प्रति (नः) अस्मान् (अत्र) संसारे (जरसे) म० ६। स्तुतिप्राप्तये (नि) निश्चयेन (नेषत्) अ० ७।९।२। नयेत् स परमेश्वरः (जरा) जॄ स्तुतौ−अङ्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः−निरु० १०।८। स्तुतिः (मृत्यवे) मरणाय (नः) अस्मान् (परि ददातु) समर्पयतु (अथ) अनन्तरम् (पक्वेन) दृढस्वभावेन परमात्मना (सह) (संभवेम) समर्था भवेम ॥

    इस भाष्य को एडिट करें
    Top