अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 29
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उद्यो॑धन्त्य॒भि व॑ल्गन्ति त॒प्ताः फेन॑मस्यन्ति बहु॒लांश्च॑ बि॒न्दून्। योषे॑व दृ॒ष्ट्वा पति॒मृत्वि॑यायै॒तैस्त॑ण्डु॒लैर्भ॑वता॒ समा॑पः ॥
स्वर सहित पद पाठउत् । यो॒ध॒न्ति॒ । अ॒भि । व॒ल्ग॒न्ति॒। त॒प्ता: । फेन॑म् । अ॒स्य॒न्ति॒ । ब॒हु॒लान् । च॒ । बि॒न्दून् । योषा॑ऽइव । दृ॒ष्ट्वा । पति॑म् । ऋत्वि॑जाय । ए॒तै: । त॒ण्डु॒लै: । भ॒व॒त॒ । सम् । आ॒प॒: ॥३.२९॥
स्वर रहित मन्त्र
उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून्। योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः ॥
स्वर रहित पद पाठउत् । योधन्ति । अभि । वल्गन्ति। तप्ता: । फेनम् । अस्यन्ति । बहुलान् । च । बिन्दून् । योषाऽइव । दृष्ट्वा । पतिम् । ऋत्विजाय । एतै: । तण्डुलै: । भवत । सम् । आप: ॥३.२९॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 29
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २९−(उद्योधन्ति) उत्कर्षेण संप्रहरन्ति (अभि) सर्वतः (वल्गन्ति) उत्प्लुत्य गच्छन्ति (तप्ताः) अग्निसंयुताः सत्यः। आपः−इति शेषः (फेनम्) फेनमीनौ। उ० ३।३। स्फायी वृद्धौ−नक्। बुद्बुदाकारं पदार्थम् (अस्यन्ति) क्षिपन्ति (बहुलान्) बहून् (च) (बिन्दून्) (योषा) सेवनीया पत्नी (इव) यथा (दृष्ट्वा) निरीक्ष्य (पतिम्) भर्तारम् (ऋत्वियाय) अ० ३।२०।१। छन्दसि घस्। पा० ५।१।१०६। ऋतु−घस्, इयादेशः। क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। ऋतुं गर्भाधानयोग्यकालं प्राप्तुम् (एतैः) (तण्डुलैः) (संभवत) शक्तिमत्यो भवत (आपः) हे आप्ताः प्रजाः ॥
इस भाष्य को एडिट करें