अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 13
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - स्वराडार्षी पङ्क्तिः
सूक्तम् - स्वर्गौदन सूक्त
यद्य॑त्कृ॒ष्णः श॑कु॒न एह ग॒त्वा त्सर॒न्विष॑क्तं॒ बिल॑ आस॒साद॑। यद्वा॑ दा॒स्या॒र्द्रह॑स्ता सम॒ङ्क्त उ॒लूख॑लं॒ मुस॑लं शुम्भतापः ॥
स्वर सहित पद पाठयत्ऽय॑त् । कृ॒ष्ण: । श॒कु॒न: । आ । इ॒ह । ग॒त्वा । त्सर॑न् । विऽस॑क्तम् । बिले॑ । आ॒ऽस॒साद॑ । यत् । वा॒ । दा॒सी । आ॒र्द्रऽह॑स्ता । स॒म्ऽअ॒ङ्क्ते । उ॒लूख॑लम् । मुस॑लम् । शु॒म्भ॒त॒ । आ॒प॒: ॥३.१३॥
स्वर रहित मन्त्र
यद्यत्कृष्णः शकुन एह गत्वा त्सरन्विषक्तं बिल आससाद। यद्वा दास्यार्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥
स्वर रहित पद पाठयत्ऽयत् । कृष्ण: । शकुन: । आ । इह । गत्वा । त्सरन् । विऽसक्तम् । बिले । आऽससाद । यत् । वा । दासी । आर्द्रऽहस्ता । सम्ऽअङ्क्ते । उलूखलम् । मुसलम् । शुम्भत । आप: ॥३.१३॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(यद्यत्) यस्मिन्नेव काले (कृष्णः) कृष विलेखने−नक्। विलेखकः (शकुनः) अ० ११।२।२४। चिल्लपक्षिसमानदुष्टः पुरुषः (इह) (आ गत्वा) आगत्य (त्सरन्) कपटेन गच्छन् (विषक्तम्) यथा तथा विरुद्धमेलनेन (बिले) छिद्रे। गृहे (आससाद) आजगाम (यत्) यदि (वा) अथवा (दासी) अ० ५।१३।८। दास हिंसायाम्−घञ्। ङीप्। हिंस्रा स्त्री (आर्द्रहस्ता) क्लिन्नहस्ता। मलिनकरा (समङ्क्ते) लिम्पते (उलूखलम्) (मुसलम्) (शुम्भत) शुम्भ हिंसायाम् नाशयत् दोषम् (आपः) हे आप्ताः प्रजाः ॥
इस भाष्य को एडिट करें