Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 42
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    नि॒धिं नि॑धि॒पा अ॒भ्येनमिच्छा॒दनी॑श्वरा अ॒भितः॑ सन्तु॒ ये॒न्ये। अ॒स्माभि॑र्द॒त्तो निहि॑तः स्व॒र्गस्त्रि॒भिः काण्डै॒स्त्रीन्त्स्व॒र्गान॑रुक्षत् ॥

    स्वर सहित पद पाठ

    नि॒ऽधिम् । नि॒धि॒ऽपा: । अ॒भि । ए॒न॒म् । इ॒च्छा॒त् । अनी॑श्वरा: । अ॒भित॑: । स॒न्तु॒ । ये । अ॒न्ये । अ॒स्माभि॑: । द॒त्त: । निऽहि॑त: । स्व॒:ऽग: । त्रि॒ऽभि: । काण्डै॑: । त्रीन् । स्व॒:ऽगान् । अ॒रु॒क्ष॒त् ॥३.४२॥


    स्वर रहित मन्त्र

    निधिं निधिपा अभ्येनमिच्छादनीश्वरा अभितः सन्तु येन्ये। अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गानरुक्षत् ॥

    स्वर रहित पद पाठ

    निऽधिम् । निधिऽपा: । अभि । एनम् । इच्छात् । अनीश्वरा: । अभित: । सन्तु । ये । अन्ये । अस्माभि: । दत्त: । निऽहित: । स्व:ऽग: । त्रिऽभि: । काण्डै: । त्रीन् । स्व:ऽगान् । अरुक्षत् ॥३.४२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 42

    टिप्पणीः - ४२−(निधिम्) कोशम्। मोक्षमित्यर्थः (निधिपाः) कोशपालकः (एनम्) (अभि इच्छात्) अन्वेषणेन प्राप्नुयात् (अनीश्वराः) ईश ऐश्वर्ये−वरच्। अनैश्वर्यवन्तः (अभितः) सर्वतः (ये) (अन्ये) वेदविरोधिनः (अस्माभिः) विद्वद्भिः (दत्तः)−देङ् पालने−क्त। दाधा ध्वदाप्। पा० १।१।२०। इति घु संज्ञा। दो दद्घोः। पा० ७।४।४६। दद् इत्यादेशः। रक्षितः (निहितः) स्थापितः (स्वर्गः) सुखप्रापकः पुरुषः (त्रिभिः) मानसिकवाचिकशारीरिकैः (काण्डैः) क्वादिभ्यः कित्। उ० १।११५। कमु कान्तौ−ड। यद्वा, कण शब्दे−ड। अनुनासिकस्य क्विझलोः क्ङिति। पा० ६।४।१५। इति दीर्घः। कर्मनीयैः कर्मभिः (त्रीन्) आध्यात्मिकाधिभौतिकाधिदैविकान् (स्वर्गान्) सुखप्रापकान् व्यवहारान् (अरुक्षत्) अध्यतिष्ठत् ॥

    इस भाष्य को एडिट करें
    Top