Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 21
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - जगती सूक्तम् - स्वर्गौदन सूक्त

    पृथ॑ग्रू॒पाणि॑ बहु॒धा प॑शू॒नामेक॑रूपो भवसि॒ सं समृ॑द्ध्या। ए॒तां त्वचं॒ लोहि॑नीं॒ तां नु॑दस्व॒ ग्रावा॑ शुम्भाति मल॒ग इ॑व॒ वस्त्रा॑ ॥

    स्वर सहित पद पाठ

    पृथ॑क् । रू॒पाणि॑ । ब॒हु॒ऽधा । प॒शू॒नाम् । एक॑ऽरूप: । भ॒व॒सि॒ । सम् । सम्ऽऋ॑ध्द्या । ए॒ताम् । त्वच॑म् । लोहि॑नीम् । ताम्। नु॒द॒स्व॒ । ग्रावा॑ । शु॒म्भा॒ति॒ । म॒ल॒ग:ऽइ॑व । वस्त्रा॑ ॥३.२१॥


    स्वर रहित मन्त्र

    पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या। एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ॥

    स्वर रहित पद पाठ

    पृथक् । रूपाणि । बहुऽधा । पशूनाम् । एकऽरूप: । भवसि । सम् । सम्ऽऋध्द्या । एताम् । त्वचम् । लोहिनीम् । ताम्। नुदस्व । ग्रावा । शुम्भाति । मलग:ऽइव । वस्त्रा ॥३.२१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 21

    टिप्पणीः - २१−(पृथक्) भिन्नभावेन (रूपाणि) आकाराः। स्वभावाः (बहुधा) प्रायः (पशूनाम्) जीवानाम् (एकरूपः) निश्चितस्वभावः (सं भवसि) शक्तो भवसि (समृद्ध्या) पूर्णसिद्ध्या (एताम्) समीपस्थाम् (त्वचम्) त्वच संवरणे−क्विप्। आवरणम् (लोहिनीम्) लोह−इनि। लोहमयीम्। अतिकठिनाम् (ताम्) दूरस्थाम् (नुदस्व) प्रेरय (ग्रावा) म० १४। शास्त्रोपदेशकः (शुम्भाति) शोधयेत् (मलगः) मृजेष्टिलोपश्च। उ० १।११०। मृजूष् शुद्धौ−कल, धातोष्टिलोपश्च+गल भक्षणे स्रावे क्षारणे च−उ। मलं शोधनीयं कलङ्कं गलयति क्षारयतीति यः। रजकः। धावकः (इव) यथा (वस्त्रा) वस्त्राणि ॥

    इस भाष्य को एडिट करें
    Top