अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 45
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
इ॒दं प्राप॑मुत्त॒मं काण्ड॑मस्य॒ यस्मा॑ल्लो॒कात्प॑रमे॒ष्ठी स॒माप॑। आ सि॑ञ्च स॒र्पिर्घृ॒तव॒त्सम॑ङ्ग्ध्ये॒ष भा॒गो अङ्गि॑रसो नो॒ अत्र॑ ॥
स्वर सहित पद पाठइ॒दम् । प्र । आ॒प॒म् । उ॒त्ऽत॒मम् । काण्ड॑म् । अ॒स्य॒ । यस्मा॑त् । लो॒कात् । प॒र॒मे॒ऽस्थी । स॒म्ऽआप॑ । आ । सि॒ञ्च॒ । स॒र्पि: । घृ॒तऽव॑त् । सम् । अ॒ङ्ग्धि॒ । ए॒ष: । भा॒ग: । अङ्गि॑रस: । न॒: । अत्र॑ ॥३.४५॥
स्वर रहित मन्त्र
इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप। आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥
स्वर रहित पद पाठइदम् । प्र । आपम् । उत्ऽतमम् । काण्डम् । अस्य । यस्मात् । लोकात् । परमेऽस्थी । सम्ऽआप । आ । सिञ्च । सर्पि: । घृतऽवत् । सम् । अङ्ग्धि । एष: । भाग: । अङ्गिरस: । न: । अत्र ॥३.४५॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 45
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४५−(इदम्) प्रत्यक्षम् (प्रापम्) प्राप्तवानस्मि (उत्तमम्) श्रेष्ठम् (काण्डम्) म० ४२। कमनीयं पदम् (अस्य) तस्य। समाजस्य (यस्मात्) (लोकात्) समाजात् (परमेष्ठी) उत्कृष्टे पदे वर्तमानो ब्रह्मचारी (सम्) सम्यक् (आप) प्राप्तवान् (आ) समन्तात् (सिञ्च) (सर्पिः) अर्चिशुचिहुसृपि०। उ० २।१०८। सृप गतौ−इसि। ज्ञानम् (घृतवत्) प्रकाशयुक्तम् (सम्) सम्यक् (अङ्ग्धि) अञ्जू व्यक्तीकरणे। व्यक्तं प्रकटं कुरु (एषः) (भागः) सेवनीयो व्यवहारः (अङ्गिरसः) विदुषः पुरुषस्य। आचार्यस्य (नः) अस्मभ्यम् (अत्र) संसारे ॥
इस भाष्य को एडिट करें