अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 12
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - जगती
सूक्तम् - स्वर्गौदन सूक्त
पि॒तेव॑ पु॒त्रान॒भि सं स्व॑जस्व नः शि॒वा नो॒ वाता॑ इ॒ह वा॑न्तु॒ भूमौ॑। यमो॑द॒नं पच॑तो दे॒वते॑ इ॒ह तं न॒स्तप॑ उ॒त स॒त्यं च॑ वेत्तु ॥
स्वर सहित पद पाठपि॒ताऽइ॑व । पु॒त्रान् । अ॒भि । सम् । स्व॒ज॒स्व॒ । न॒: । शि॒वा:। न॒: । वाता॑: । इ॒ह । वा॒न्तु॒ । भूमौ॑ । यम् । ओ॒द॒नम. । पच॑त: । दे॒वते॒ इति॑ । इ॒ह । तम् । न॒: । तप॑: । उ॒त । स॒त्यम् । च॒ । वे॒त्तु॒ ॥३.१२॥
स्वर रहित मन्त्र
पितेव पुत्रानभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ। यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु ॥
स्वर रहित पद पाठपिताऽइव । पुत्रान् । अभि । सम् । स्वजस्व । न: । शिवा:। न: । वाता: । इह । वान्तु । भूमौ । यम् । ओदनम. । पचत: । देवते इति । इह । तम् । न: । तप: । उत । सत्यम् । च । वेत्तु ॥३.१२॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(पिता) (इव) (पुत्रान्) म० ४। (अभि) सर्वतः (सम्) सम्यक् (स्वजस्व) आलिङ्ग (नः) अस्मान् (शिवाः) मङ्गलकराः (नः) अस्मभ्यम् (वाताः) पवनाः (इह) अत्र (वान्तु) गच्छन्तु (भूमौ) (यम्) (ओदनम्) सुखवर्षकं परमेश्वरम् (पचतः) दृढीकुरुतः (देवते) विद्वांसौ स्त्रीपुरुषौ (इह) (तम्) परमेश्वरम् (तपः) ब्रह्मचर्यादिव्रतम् (उत) अपि (सत्यम्) यथार्थव्यवहारः (च) अवधारणे (वेत्तु) जानातु ॥
इस भाष्य को एडिट करें