Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 9
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    प्र॒तीची॑ दि॒शामि॒यमिद्वरं॒ यस्यां॒ सोमो॑ अधि॒पा मृ॑डि॒ता च॑। तस्यां॑ श्रयेथां सु॒कृतः॑ सचेथा॒मधा॑ प॒क्वान्मि॑थुना॒ सं भ॑वाथः ॥

    स्वर सहित पद पाठ

    प्र॒तीची॑ । दि॒शाम् । इ॒यम् । इत् । वर॑म् । यस्या॑म् । सोम॑: । अ॒धि॒ऽपा: । मृ॒डि॒ता । च॒ । तस्या॑म् । श्र॒ये॒था॒म् । सु॒ऽकृत॑: । स॒चे॒था॒म् । अध॑ । प॒क्वात् । मि॒थु॒ना॒ । सम् । भ॒वा॒थ॒: ॥३.९॥


    स्वर रहित मन्त्र

    प्रतीची दिशामियमिद्वरं यस्यां सोमो अधिपा मृडिता च। तस्यां श्रयेथां सुकृतः सचेथामधा पक्वान्मिथुना सं भवाथः ॥

    स्वर रहित पद पाठ

    प्रतीची । दिशाम् । इयम् । इत् । वरम् । यस्याम् । सोम: । अधिऽपा: । मृडिता । च । तस्याम् । श्रयेथाम् । सुऽकृत: । सचेथाम् । अध । पक्वात् । मिथुना । सम् । भवाथ: ॥३.९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 9

    टिप्पणीः - ९−(प्रतीची) अ० ३।२७।३। पश्चाद्भागस्था दिक् (दिशाम्) दिशानां मध्ये (इयम्) दृश्यमानां (इत्) अपि (वरम्) यथा तथा वरणीया (यस्याम्) दिशि (सोमः) जगदुत्पादकः परमेश्वरः (अधिपाः) अधिपतिः (मृडिता) मृडयिता। सुखयिता (च) (तस्याम्) (श्रयेथाम्) सेवेथाम् (सुकृतः) पुण्यकर्मणः पुरुषान् (सचेथाम्) संगच्छेथाम्। अन्यत् पूर्ववत्−म० २ ॥

    इस भाष्य को एडिट करें
    Top