अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 47
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
अ॒हं प॑चाम्य॒हं द॑दामि॒ ममे॑दु॒ कर्म॑न्क॒रुणेऽधि॑ जा॒या। कौमा॑रो लो॒को अ॑जनिष्ट पु॒त्रोन्वार॑भेथां॒ वय॑ उत्त॒राव॑त् ॥
स्वर सहित पद पाठअ॒हम् । प॒चा॒मि॒ । अ॒हम् । द॒दा॒मि॒ । मम॑ । इत् । ऊं॒ इति॑ । कर्म॑न् । क॒रुणे॑ । अधि॑ । जा॒या॒ । कौमा॑र: । लो॒क: । अ॒ज॒नि॒ष्ट॒: । पु॒त्र: । अ॒नु॒ऽआर॑भेथाम् । वय॑: । उ॒त्त॒रऽव॑त् ॥३.४७॥
स्वर रहित मन्त्र
अहं पचाम्यहं ददामि ममेदु कर्मन्करुणेऽधि जाया। कौमारो लोको अजनिष्ट पुत्रोन्वारभेथां वय उत्तरावत् ॥
स्वर रहित पद पाठअहम् । पचामि । अहम् । ददामि । मम । इत् । ऊं इति । कर्मन् । करुणे । अधि । जाया । कौमार: । लोक: । अजनिष्ट: । पुत्र: । अनुऽआरभेथाम् । वय: । उत्तरऽवत् ॥३.४७॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 47
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४७−(अहम्) आचार्यः (पचामि) पक्कं दृढं करोमि, निधिम्−म० ४६ (अहम्) (ददामि) (मम) (इत्) एव (उ) निश्चयेन (कर्मन्) विहितकर्मणि (करुणे) करुणा−अर्शआद्यच्। करुणावति। दयावति (अधि) अधिकृता (जाया) पत्नी (कौमारः) कुमारी−अण्। श्रेष्ठकुमारीयुक्तः (लोकः) समाजः (अजनिष्ट) प्रादुरभवत् (पुत्रः) पुत्र−अर्शआद्यच्। श्रेष्ठपुत्रयुक्तः (अन्वारभेथाम्) निरन्तरमारम्भं कुरुतम् (वयः) जीवनम् (उत्तरावत्) म० १०। अधिकोत्तमगुणयुक्तम् ॥
इस भाष्य को एडिट करें