अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 35
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
ध॒र्ता ध्रि॑यस्व ध॒रुणे॑ पृथि॒व्या अच्यु॑तं॒ त्वा दे॒वता॑श्च्यावयन्तु। तं त्वा॒ दंप॑ती॒ जीव॑न्तौ जी॒वपु॑त्रा॒वुद्वा॑सयातः॒ पर्य॑ग्नि॒धाना॑त् ॥
स्वर सहित पद पाठध॒र्ता । ध्रि॒य॒स्व॒ । ध॒रुणे॑ । पृ॒थि॒व्या: । अच्यु॑तम् । त्वा॒ । दे॒वता॑: । च्य॒व॒य॒न्तु॒ । तम् । त्वा॒ । दंप॑ती॒ इति॑ दम्ऽप॑ती । जीव॑न्तौ । जी॒वऽपु॑त्रौ । उत् । वा॒स॒या॒त॒: । परि॑ । अ॒ग्नि॑ऽधाना॑त् ॥३.३५॥
स्वर रहित मन्त्र
धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु। तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्वासयातः पर्यग्निधानात् ॥
स्वर रहित पद पाठधर्ता । ध्रियस्व । धरुणे । पृथिव्या: । अच्युतम् । त्वा । देवता: । च्यवयन्तु । तम् । त्वा । दंपती इति दम्ऽपती । जीवन्तौ । जीवऽपुत्रौ । उत् । वासयात: । परि । अग्निऽधानात् ॥३.३५॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 35
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३५−(धर्ता) धारकः सन् (ध्रियस्व) धृतः स्थिरो भव (धरुणे) धारणे (पृथिव्याः) भूमिराज्यस्य (अच्युतम्) च्युङ् गतौ−क्त। निश्चलम् (त्वा) वीरम् (देवताः) विद्वांसः (च्यवयन्तु) च्यु हसने सहने च। सहन्ताम् (तम्) (तादृशम्) (त्वा) (दम्पती) जायापती (जीवन्तौ) प्राणान् धरन्तौ पुरुषार्थं कुर्वन्तौ (जीवपुत्रौ) जीविता पुरुषार्थयुक्ताः पुत्रा ययोस्तौ (उत्) उत्कर्षेण (वासयातः) लेट्। निवासयताम् (परि) सर्वतः (अग्निधानात्) ज्ञानधारणकारणात् ॥
इस भाष्य को एडिट करें