अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 40
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
याव॑न्तो अ॒स्याः पृ॑थि॒वीं सच॑न्ते अ॒स्मत्पु॒त्राः परि॒ ये सं॑बभू॒वुः। सर्वां॒स्ताँ उप॒ पात्रे॑ ह्वयेथां॒ नाभिं॑ जाना॒नाः शिश॑वः स॒माया॑न् ॥
स्वर सहित पद पाठयाव॑न्त: । अ॒स्या: । पृ॒थि॒वीम् । सच॑न्ते । अ॒स्मत् । पु॒त्रा: । परि॑ । ये । स॒म्ऽब॒भू॒वु: । सर्वा॒न् । तान् । उप॑ । पात्रे॑ । ह्व॒ये॒था॒म् । नाभि॑म् । जा॒ना॒ना: । शिश॑व: । स॒म्ऽआया॑न् ॥३.४०॥
स्वर रहित मन्त्र
यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः। सर्वांस्ताँ उप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥
स्वर रहित पद पाठयावन्त: । अस्या: । पृथिवीम् । सचन्ते । अस्मत् । पुत्रा: । परि । ये । सम्ऽबभूवु: । सर्वान् । तान् । उप । पात्रे । ह्वयेथाम् । नाभिम् । जानाना: । शिशव: । सम्ऽआयान् ॥३.४०॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 40
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४०−(यावन्तः) (अस्याः) जायायाः (पृथिवीम्) (सचन्ते) सेवन्ते (अस्मत्) अस्माकं सकाशात् (पुत्राः) (परि) पृथग् भूय (संबभूवुः) उत्पन्ना बभूवुः (सर्वान्) (तान्) (उप) समीपम् (पात्रे) रक्षणीये व्यवहारे (ह्वयेथाम्) आह्वयतं युवाम् (नाभिम्) बन्धुत्वम् (जानानाः) ज्ञा अवबोधने−चानश्। जानन्तः (शिशवः) बालकाः (समायान्) सम्+आङ्+या गतौ−लेट्। समागच्छन्ताम् ॥
इस भाष्य को एडिट करें