अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 46
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
स॒त्याय॑ च॒ तप॑से दे॒वता॑भ्यो नि॒धिं शे॑व॒धिं परि॑ दद्म ए॒तम्। मा नो॑ द्यू॒तेऽव॑ गा॒न्मा समि॑त्यां॒ मा स्मा॒न्यस्मा॒ उत्सृ॑जता पु॒रा मत् ॥
स्वर सहित पद पाठस॒त्याय॑ । च॒ । तप॑से । दे॒वता॑भ्य: । नि॒ऽधिम् । शे॒व॒ऽधिम् । परि॑ । द॒द्म॒: । ए॒तम् । मा । न॒: । द्यू॒ते । अव॑ । गा॒त् । मा । सम्ऽइ॑त्याम् । मा । स्म॒ । अ॒न्यस्मै॑ । उत् । सृ॒ज॒त॒ । पु॒रा । मत् ॥३.४६॥
स्वर रहित मन्त्र
सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम्। मा नो द्यूतेऽव गान्मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत् ॥
स्वर रहित पद पाठसत्याय । च । तपसे । देवताभ्य: । निऽधिम् । शेवऽधिम् । परि । दद्म: । एतम् । मा । न: । द्यूते । अव । गात् । मा । सम्ऽइत्याम् । मा । स्म । अन्यस्मै । उत् । सृजत । पुरा । मत् ॥३.४६॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 46
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४६−(सत्याय) यथार्थकर्मकरणाय (च) (तपसे) ऐश्वर्यवर्धनाय (देवताभ्यः) विजिगीषुभ्यो विद्यार्थिभ्यः (निधिम्) विद्याकोशम् (शेवधिम्) ......... निघ० ३।६। सुखप्रदम् (परिदद्मः) समर्पयामः (एतम्) ..... (अस्माकम्) (द्यूते) पाशादिक्रीडायाम्। कैतवे (मा अव गात्) मा नश्येत् (मा) निषेधे (समित्याम्) सङ्ग्रामे−निघ० २।१७। (मा स्म) नैव (अन्यस्मै) विरुद्धस्वभावाय। अधर्मिणे (उत् सृजत) सृज विसर्गे−लङ्, आत्मनेपदं छान्दसम्। स्मोत्तरे लङ् च। पा० ३।३।१७६। मास्मेत्युपपदे−लङ्। त्यज्यताम् (पुरा) अग्रतः (मत्) मत्सकाशात् ॥
इस भाष्य को एडिट करें