Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 1
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    पुमा॑न्पुं॒सोऽधि॑ तिष्ठ॒ चर्मे॑हि॒ तत्र॑ ह्वयस्व यत॒मा प्रि॒या ते॑। याव॑न्ता॒वग्रे॑ प्रथ॒मं स॑मे॒यथु॒स्तद्वां॒ वयो॑ यम॒राज्ये॑ समा॒नम् ॥

    स्वर सहित पद पाठ

    पुमा॑न् । पुं॒स: । अधि॑ । ति॒ष्ठ॒ । चर्म॑ । इ॒हि॒। तत्र॑ । ह्व॒य॒स्व॒ । य॒त॒मा । प्रि॒या । ते॒ । याव॑न्तौ । अग्रे॑ । प्र॒थ॒मम् । स॒म्ऽएयथु॑: । तत् । वा॒म् । वय॑: । य॒म॒ऽराज्ये॑ । स॒मा॒नम् ॥३.१॥


    स्वर रहित मन्त्र

    पुमान्पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते। यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् ॥

    स्वर रहित पद पाठ

    पुमान् । पुंस: । अधि । तिष्ठ । चर्म । इहि। तत्र । ह्वयस्व । यतमा । प्रिया । ते । यावन्तौ । अग्रे । प्रथमम् । सम्ऽएयथु: । तत् । वाम् । वय: । यमऽराज्ये । समानम् ॥३.१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 1

    टिप्पणीः - १−(पुमान्) अ० १।८।१। पातीति पुमान्। रक्षको जीवः (पुंसः) रक्षकान् (अधि) अधिकृत्य (तिष्ठ) वर्तस्व (चर्म) चर गतिभक्षणयोः−मनिन्। ज्ञानम् (इहि) प्राप्नुहि (तत्र) ज्ञाने (ह्वयस्व) आह्वय (यतमा) बह्वीषु या शक्तिस्तामिति शेषः (प्रिया) हिता (ते) तुभ्यम् (यावन्तौ) यत्परिमाणौ पराक्रमिणौ (अग्रे) पूर्वे वयसि (प्रथमम्) प्रधानं कर्म (समेयथुः) सम्+आङ्+ईयथुः। युवां मिलित्वा प्राप्तवन्तौ (तत्) तावत् (वाम्) युवयोः (वयः) जीवनम् (यमराज्ये) न्यायाधीशस्य परमेश्वरस्य न्यायव्यवहारे (समानम्) तुल्यम् ॥

    इस भाष्य को एडिट करें
    Top