अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 55
सूक्त - भृगुः
देवता - अग्निः
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
प्र॒त्यञ्च॑म॒र्कं प्र॑त्यर्पयि॒त्वा प्र॑वि॒द्वान्पन्थां॒ वि ह्यावि॒वेश॑। परा॒मीषा॒मसू॑न्दि॒देश॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥
स्वर सहित पद पाठप्र॒त्यञ्च॑म् । अ॒र्कम् । प्र॒ति॒ऽअ॒र्प॒यि॒त्वा । प्र॒ऽवि॒द्वान् । पन्था॑म् । वि । हि । आ॒ऽवि॒वेश॑ । परा॑ । अ॒मीषा॑म् । असू॑न् । दि॒देश॑ । दी॒र्घेण॑ । आयु॑षा । सम् । इ॒मान् । सृ॒जा॒मि॒ ॥२.५५॥
स्वर रहित मन्त्र
प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान्पन्थां वि ह्याविवेश। परामीषामसून्दिदेश दीर्घेणायुषा समिमान्त्सृजामि ॥
स्वर रहित पद पाठप्रत्यञ्चम् । अर्कम् । प्रतिऽअर्पयित्वा । प्रऽविद्वान् । पन्थाम् । वि । हि । आऽविवेश । परा । अमीषाम् । असून् । दिदेश । दीर्घेण । आयुषा । सम् । इमान् । सृजामि ॥२.५५॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 55
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५५−(प्रत्यञ्चम्) प्रत्यक्षेण गच्छन्तम् (अर्कम्) सूर्यम् (प्रत्यर्पयित्वा) क्त्वापिच्छन्दसि। पा० ७।१।३८। अनञ्पूर्वे क्त्वा। प्रत्यर्प्य। प्रत्यक्षं स्थापयित्वा (प्रविद्वान्) प्रकर्षेण जानन् परमेश्वरोऽहम् (पन्थाम्) पन्थानम् (वि) विविधम् (हि) निश्चयेन (आ विवेश) प्रविष्टवानस्मि (परा) प्राधान्येन (अमीषाम्) प्राणिनां लोकानां च (असून्) प्राणान् (दिदेश) आज्ञापितवानस्मि (दीर्घेण) चिरकालेन (आयुषा) जीवनेन (इमान्) जीवान् लोकांश्च (सं सृजामि) संयोजयामि ॥
इस भाष्य को एडिट करें