अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 8
सूक्त - भृगुः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः। इ॒हायमित॑रो जा॒तवे॑दा दे॒वो दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥
स्वर सहित पद पाठक्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । प्र । हि॒णो॒मि॒ । दू॒रम् । य॒मऽरा॑ज्ञ: । ग॒च्छ॒तु॒ । रि॒प्र॒ऽवा॒ह: । इ॒ह । अ॒यम् । इत॑र: । जा॒तऽवे॑दा: । दे॒व: । दे॒वेभ्य॑: । ह॒व्यम् । व॒ह॒तु॒ । प्र॒ऽजा॒नन् ।॥२.८॥
स्वर रहित मन्त्र
क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः। इहायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥
स्वर रहित पद पाठक्रव्यऽअदम् । अग्निम् । प्र । हिणोमि । दूरम् । यमऽराज्ञ: । गच्छतु । रिप्रऽवाह: । इह । अयम् । इतर: । जातऽवेदा: । देव: । देवेभ्य: । हव्यम् । वहतु । प्रऽजानन् ।॥२.८॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(क्रव्यादम्) मांसभक्षकम् (अग्निम्) अग्निवत्परितापकम् (प्र) बहिर्भावे (हिणोमि) गमयामि (दूरम्) (यमराज्ञः) यमो न्यायाधीशो राजा येषां तान् यमराजकान् पुरुषान् (गच्छतु) प्राप्नोतु (रिप्रवाहः) रिप्र+वह प्रापणे−अण्। रिप्रं पापं तस्य वोढा (इह) अस्मिन् संसारे (अयम्) (इतरः) भिन्नः (जातवेदाः) प्रसिद्धवेदज्ञाता (देवः) विजिगीषुः (देवेभ्यः) विजिगीषुभ्यः (हव्यम्) दातव्यग्राह्यपदार्थम् (वहतु) प्रापयतु (प्रजानन्) प्रकर्षेण विदन् सन् ॥
इस भाष्य को एडिट करें