अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 22
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य। प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
स्वर सहित पद पाठइ॒मे । जी॒वा: । वि । मृ॒तै: । आ । अ॒व॒वृ॒त्र॒न् । अभू॑त् । भ॒द्रा । दे॒वऽहू॑ति: । न॒: । अ॒द्य । प्राञ्च॑: । अ॒गा॒म॒ । नृ॒तये॑ । हसा॑य । सु॒ऽवीरा॑स: । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥२.२२॥
स्वर रहित मन्त्र
इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य। प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥
स्वर रहित पद पाठइमे । जीवा: । वि । मृतै: । आ । अववृत्रन् । अभूत् । भद्रा । देवऽहूति: । न: । अद्य । प्राञ्च: । अगाम । नृतये । हसाय । सुऽवीरास: । विदथम् । आ । वदेम ॥२.२२॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(इमे) दृश्यमानाः (जीवाः) जीवन्तः पुरुषाः (वि) वियुज्य (मृतैः) मृतकैः। हतपुरुषार्थैः (आ अववृत्रन्) वृतु वर्तने छान्दसो लुङ्। अवृतन्। आवृत्ता अभवन् (अभूत्) (भद्रा) कल्याणी (देवहूतिः) विदुषां वाणी (नः) अस्मभ्यम् (अद्य) अस्मिन् दिने (प्राञ्चः) प्रकर्षेण गच्छन्तः (अगाम) इण् गतौ−लुङ्। अगमाम् (नृतये) नर्तनाय। गात्रविक्षेपाय कर्मानुष्ठानाय (हसाय) हसनाय। सहक्रीडनाय (सुवीरासः) शोभनवीरयुक्ताः (विदथम्) अ० १।१३।४। विज्ञानम् (आ वदेम) उपदिशेम ॥
इस भाष्य को एडिट करें