अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 29
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
उ॑दी॒चीनैः॑ प॒थिभि॑र्वायु॒मद्भि॑रति॒क्राम॒न्तोऽव॑रा॒न्परे॑भिः। त्रिः स॒प्त कृत्व॒ ऋष॑यः॒ परे॑ता मृ॒त्युं प्रत्यौ॑हन्पद॒योप॑नेन ॥
स्वर सहित पद पाठउ॒दी॒चीनै॑: । प॒थिऽभि॑: । वा॒यु॒मत्ऽभि॑: । अ॒ति॒ऽक्राम॑न्त: । अव॑रान् । परे॑भि: । त्रि: । स॒प्त । कृत्व॑: । ऋष॑य: । परा॑ऽइता । मृ॒त्युम् । प्रति॑ । औ॒ह॒न् । प॒द॒ऽयोप॑नेन ॥२.२९॥
स्वर रहित मन्त्र
उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान्परेभिः। त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन्पदयोपनेन ॥
स्वर रहित पद पाठउदीचीनै: । पथिऽभि: । वायुमत्ऽभि: । अतिऽक्रामन्त: । अवरान् । परेभि: । त्रि: । सप्त । कृत्व: । ऋषय: । पराऽइता । मृत्युम् । प्रति । औहन् । पदऽयोपनेन ॥२.२९॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 29
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २९−(उदीचीनैः) विभाषाञ्चेरदिक् स्त्रियाम्। पा० ५।४।८। उदञ्च−ख प्रत्ययः स्वार्थे। उच्चैर्गच्छद्भिः। (पथिभिः) मार्गैः (वायुमद्भिः) शुद्धवायुयुक्तैः (अतिक्रामन्तः) उल्लङ्घयन्तः (अवरान्) निकृष्टान् मार्गान् (परेभिः) उत्कृष्टैः (त्रिः) त्रिवारम्। मनसा वाचा कर्मणा (सप्त कृत्वः) सप्तवारम्। अ० ४।११।९। कर्णनासिकाचक्षुर्द्वयमुखद्वारा (ऋषयः) धर्मदर्शकाः (परेताः) पराक्रमं गताः प्राप्ताः (मृत्युम्) (प्रति) प्रातिकूल्येन (औहन्) उहिर् वधे−लुङ्। हतवन्तः (पदयोपनेन) मार्गनिरोधेन ॥
इस भाष्य को एडिट करें