Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 53
    सूक्त - भृगुः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    अविः॑ कृ॒ष्णा भा॑ग॒धेयं॑ पशू॒नां सीसं॑ क्र॒व्यादपि॑ च॒न्द्रं त॑ आहुः। माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व ॥

    स्वर सहित पद पाठ

    अवि॑: । कृ॒ष्णा । भा॒ग॒ऽधेय॑म् । प॒शू॒नाम् । सीस॑म् । क्र॒व्य॒ऽअत् । अपि॑ । च॒न्द्रम् । ते॒ । आ॒हु॒: । माषा॑: । पि॒ष्टा: । भा॒ग॒ऽधेय॑म‌् । ते॒ । ह॒व्यम् । अ॒र॒ण्या॒न्या: । गह्व॑रम् । स॒च॒स्व॒ ॥२.५३॥


    स्वर रहित मन्त्र

    अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः। माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥

    स्वर रहित पद पाठ

    अवि: । कृष्णा । भागऽधेयम् । पशूनाम् । सीसम् । क्रव्यऽअत् । अपि । चन्द्रम् । ते । आहु: । माषा: । पिष्टा: । भागऽधेयम‌् । ते । हव्यम् । अरण्यान्या: । गह्वरम् । सचस्व ॥२.५३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 53

    टिप्पणीः - ५३−(अविः) म० १९। रक्षिका प्रकृतिः। सृष्टिः (कृष्णा) आकर्षणशीला (भागधेयम्) भागः (पशूनाम्) व्यक्तवाचां वाव्यक्तवाचां च जीवानाम्−निरु० ११।२९। (सीसम्) निकृष्टधातुविशेषम् (क्रव्यात्) हे मांसभक्षक पाप (अपि) एव (चन्द्रम्) आह्लादकं सुवर्णम् (ते) तव (आहुः) कथयन्ति विद्वांसः (माषाः) मष वधे−घञ्। वधव्यवहाराः। संग्रामादयः (पिष्टाः) चूर्णिताः (भागधेयम्) भागः (ते) तव (हव्यम्) ग्राह्यम् (अरण्यान्याः) इन्द्रवरुणभवशर्व०। पा० ४।१।४९। अरण्य−ङीप्, आनुक्। महारण्यस्य (गह्वरम्) गुहाम् (सचस्व) षच सम्बन्धे−संबधान। सेवस्व ॥

    इस भाष्य को एडिट करें
    Top