Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 1
    सूक्त - भृगुः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑। यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ्परे॑हि ॥

    स्वर सहित पद पाठ

    न॒डम् । आ । रो॒ह॒ । न । ते॒ । अत्र॑ । लो॒क: । इ॒दम् । सीस॑म् । भा॒ग॒ऽधेय॑म् । ते॒ । आ । इ॒हि॒ । य: । गोषु॑ । यक्ष्म॑: । पुरु॑षेषु । यक्ष्म॑: । तेन॑ । त्वम् । सा॒कम् । अ॒ध॒राङ् । परा॑ । इ॒हि॒ ॥२.१॥


    स्वर रहित मन्त्र

    नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि। यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ्परेहि ॥

    स्वर रहित पद पाठ

    नडम् । आ । रोह । न । ते । अत्र । लोक: । इदम् । सीसम् । भागऽधेयम् । ते । आ । इहि । य: । गोषु । यक्ष्म: । पुरुषेषु । यक्ष्म: । तेन । त्वम् । साकम् । अधराङ् । परा । इहि ॥२.१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 1

    टिप्पणीः - १−(नडम्) अ० ४।१९।१। नल बन्धे−पचाद्यच्, लस्य डः। बन्धनम्। तीक्ष्णाग्रतृणविशेषसदृशतीक्ष्णशस्त्रम् (आरोह) आरूढो भव (नः) निषेधे (ते) तव (अत्र) प्रजाजने (लोकः) स्थानम् (इदम्) अस्मदीयम् (सीसम्) अ० १।१६।२। षिञ् बन्धने−क्विप्+षो नाशने−क, तुक्लोपे दीर्घः। बन्धननाशकं विधानम् (भागधेयम्) सेवनीयं कर्म (ते) तव (एहि) आगच्छ (गोषु) गवादिषु (यक्ष्मः) अ० २।१०।५। राजरोगः। क्षयः (पुरुषेषु) (यक्ष्मः) (तेन) रोगेण (त्वम्) दुराचारिन् (साकम्) सहितम् (अधराङ्) अ० ५।२२।२। नीचस्थानम् (परा) दूरे (इहि) गच्छ ॥

    इस भाष्य को एडिट करें
    Top