अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 18
सूक्त - भृगुः
देवता - अग्निः
छन्दः - निचृदनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
समि॑द्धो अग्न आहुत॒ स नो॒ माभ्यप॑क्रमीः। अत्रै॒व दी॑दिहि॒ द्यवि॒ ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
स्वर सहित पद पाठसम्ऽइ॑ध्द: । अ॒ग्ने॒ । आ॒ऽहु॒त॒: । स: । न॒: । मा । अ॒भि॒ऽअप॑क्रमी: । अत्र॑ । ए॒व । दी॒दि॒हि॒ । द्यवि॑ । ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥२.१८॥
स्वर रहित मन्त्र
समिद्धो अग्न आहुत स नो माभ्यपक्रमीः। अत्रैव दीदिहि द्यवि ज्योक्च सूर्यं दृशे ॥
स्वर रहित पद पाठसम्ऽइध्द: । अग्ने । आऽहुत: । स: । न: । मा । अभिऽअपक्रमी: । अत्र । एव । दीदिहि । द्यवि । ज्योक् । च । सूर्यम् । दृशे ॥२.१८॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(समिद्धः) प्रकाशितः (अग्ने) हे अग्निवत्तेजस्विन् पुरुष (आहुतः) आहुत्या भक्त्या पूजितः (सः) स त्वम् (नः) अस्मान् (मा अभ्यपक्रमीः) अपक्रम्य मा गच्छ (अत्र) अस्मिञ्जन्मनि (एव) अवश्यम् (दीदिहि) अ० २।६।१। दीप्यस्व (द्यवि) दिवु व्यवहारे−डिवि। प्रत्येकव्यवहारे (ज्योक्) अ० १।६।३। चिरकालम् (च) निश्चयेन (सूर्यम्) जगतः प्रेरकं परमात्मानम् (दृशे) द्रष्टुम् ॥
इस भाष्य को एडिट करें