अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 17
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यस्मि॑न्दे॒वा अमृ॑जत॒ यस्मि॑न्मनु॒ष्या उ॒त। तस्मि॑न्घृत॒स्तावो॑ मृ॒ष्ट्वा त्वम॑ग्ने॒ दिवं॑ रुह ॥
स्वर सहित पद पाठयस्मि॑न् । दे॒वा: । अमृ॑जत । यस्मि॑न् । म॒नु॒ष्या᳡: । उ॒त । तस्मि॑न् । घृ॒त॒ऽस्ताव॑: । मृ॒ष्वा । आ । त्वम् । अ॒ग्ने॒ । दिव॑म् । रु॒ह॒ ॥२.१७॥
स्वर रहित मन्त्र
यस्मिन्देवा अमृजत यस्मिन्मनुष्या उत। तस्मिन्घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ॥
स्वर रहित पद पाठयस्मिन् । देवा: । अमृजत । यस्मिन् । मनुष्या: । उत । तस्मिन् । घृतऽस्ताव: । मृष्वा । आ । त्वम् । अग्ने । दिवम् । रुह ॥२.१७॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(यस्मिन्) ज्ञाने (देवाः) विजिगीषवः (अमृजत) शुद्धा अभवन् (यस्मिन्) (मनुष्याः) मननशीलाः (उत) अपि (तस्मिन्) ज्ञाने (घृतस्तावः) घृतस्य ज्ञानप्रकाशस्य स्तावः स्तुतिर्यस्य सः (मृष्ट्वा) शुद्ध्वा (त्वम्) (अग्ने) हे अग्निवत्तेजस्विन् राजन् (दिवम्) मोदम्। हर्षम् (आ रुह) अधितिष्ठ ॥
इस भाष्य को एडिट करें