अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 3
सूक्त - भृगुः
देवता - अग्निः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - यक्ष्मारोगनाशन सूक्त
निरि॒तो मृ॒त्युं निरृ॑तिं॒ निररा॑तिमजामसि। यो नो॒ द्वेष्टि॒ तम॑द्ध्यग्ने अक्रव्या॒द्यमु॑ द्वि॒ष्मस्तमु॑ ते॒ प्र सु॑वामसि ॥
स्वर सहित पद पाठनि: । इ॒त: । मृ॒त्युम् । नि:ऽऋ॑तिम् । नि: । अरा॑तिम् । अ॒जा॒म॒सि॒ । य: । न॒: । द्वेष्टि॑ । तम् । अ॒ध्दि॒ । अ॒ग्ने॒ । अ॒क्र॒व्य॒ऽअ॒त् । यम् । ऊं॒ इति॑ । द्वि॒ष्म: । तम् । ऊं॒ इति॑ । ते॒ । प्र । सु॒वा॒म॒सि॒ ॥२.३॥
स्वर रहित मन्त्र
निरितो मृत्युं निरृतिं निररातिमजामसि। यो नो द्वेष्टि तमद्ध्यग्ने अक्रव्याद्यमु द्विष्मस्तमु ते प्र सुवामसि ॥
स्वर रहित पद पाठनि: । इत: । मृत्युम् । नि:ऽऋतिम् । नि: । अरातिम् । अजामसि । य: । न: । द्वेष्टि । तम् । अध्दि । अग्ने । अक्रव्यऽअत् । यम् । ऊं इति । द्विष्म: । तम् । ऊं इति । ते । प्र । सुवामसि ॥२.३॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(निः) बहिर्भावे (इतः) अस्मात् स्थानात् (मृत्युम्) (निर्ऋतिम्) अ० ३।११।२। कृच्छ्रापत्तिम्−निरु० २।७। (निः) (अरातिम्) अदानम् (अजामसि) प्रेरयामः (यः) दुष्टः (नः) अस्मान् (द्वेष्टि) वैरायते (तम्) (अद्धि) खाद। नाशय (अग्ने) हे अग्निवत्तेजस्विन् राजन् (अक्रव्यात्) हे अमांसभक्षक। प्रजारक्षक (यम्) (उ) एव (द्विष्मः) वैरायामहे (तम्) (उ) (अपि) (ते) तुभ्यम् (प्रसुवामसि) प्रेरयामः ॥
इस भाष्य को एडिट करें