अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 33
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्वन्तरा॑वि॒वेशा॒मृतो॒ मर्त्ये॑षु। मय्य॒हं तं॒ परि॑ गृह्णामि दे॒वं मा सो अ॒स्मान्द्वि॑क्षत॒ मा व॒यं तम् ॥
स्वर सहित पद पाठय: । न॒: । अ॒ग्नि: । पि॒त॒र॒: । हृ॒त्ऽसु । अ॒न्त: । आ॒ऽवि॒वेश॑ । अ॒मृत॑: । मर्त्ये॑षु । मयि॑ । अ॒हम् । तम् । परि॑ । गृ॒ह्णा॒मि॒ । दे॒वम् । मा । स: । अ॒स्मान् । द्वि॒क्ष॒त॒ । मा । व॒यम् । तम्॥२.३३।
स्वर रहित मन्त्र
यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु। मय्यहं तं परि गृह्णामि देवं मा सो अस्मान्द्विक्षत मा वयं तम् ॥
स्वर रहित पद पाठय: । न: । अग्नि: । पितर: । हृत्ऽसु । अन्त: । आऽविवेश । अमृत: । मर्त्येषु । मयि । अहम् । तम् । परि । गृह्णामि । देवम् । मा । स: । अस्मान् । द्विक्षत । मा । वयम् । तम्॥२.३३।
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 33
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३३−(यः) (नः) अस्माकम् (अग्निः) प्रकाशस्वरूपः परमेश्वरः (पितरः) हे रक्षका विद्वांसः (हृत्सु) हृदयेषु (अन्तः) मध्ये (आ विवेश) प्रविष्टवान् (अमृतः) अविनाशी (मर्त्येषु) मरणशीलेषु मनुष्यादिषु (मयि) आत्मनि (अहम्) मनुष्यः (तम्) (परि) सर्वतः (गृह्णामि) धारयामि (देवम्) प्रकाशमानं परमेश्वरम् (सः) परमेश्वरः (अस्मान्) धार्मिकान् (मा द्विक्षत) न वैरायेत (मा) मा द्विक्षाम (वयम्) (तम्) ॥
इस भाष्य को एडिट करें