अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 11
सूक्त - भृगुः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
समि॑न्धते॒ संक॑सुकं स्व॒स्तये॑ शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः। जहा॑ति रि॒प्रमत्येन॑ एति॒ समि॑द्धो अ॒ग्निः सु॒पुना॑ पुनाति ॥
स्वर सहित पद पाठसम् । इ॒न्ध॒ते॒ । सम्ऽक॑सुकम् । स्व॒स्तये॑ । शु॒ध्दा: । भव॑न्त: । शुच॑य: । पा॒व॒का: । जहा॑ति । रि॒प्रम् । अति॑ । एन॑: । ए॒ति॒ । सम्ऽइ॑ध्द: । अ॒ग्नि: । सु॒ऽपुना॑ । पु॒ना॒ति॒ ॥२.११॥
स्वर रहित मन्त्र
समिन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः। जहाति रिप्रमत्येन एति समिद्धो अग्निः सुपुना पुनाति ॥
स्वर रहित पद पाठसम् । इन्धते । सम्ऽकसुकम् । स्वस्तये । शुध्दा: । भवन्त: । शुचय: । पावका: । जहाति । रिप्रम् । अति । एन: । एति । सम्ऽइध्द: । अग्नि: । सुऽपुना । पुनाति ॥२.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(सम्) सम्यक् (इन्धते) प्रकाशयन्ति (संकसुकम्) अ० ५।३१।९। सम्+कस गतौ शासने च−ऊक, छान्दसो ह्रस्वः। सम्यक् शासकं पुरुषम् (स्वस्तये) सुसत्तायै। कल्याणाय (शुद्धाः) अन्तःकरणेन पवित्राः (भवन्तः) वर्तमानाः सन्तः (शुचयः) बहिराचारेण शुद्धाः (पावकाः) अन्येषां शोधकाः (जहाति) त्यजति (रिप्रम्) पापम् (अति) अतीत्य (एनः) दोषम् (एति) गच्छति (समिद्धः) सम्यग् दीप्तः (अग्निः) अग्निवत्तेजस्वी पुरुषः (सुपुना) पूञ् शोधने−क्विप्। ह्रस्वो नपुंसके प्रातिपदिकस्य। पा० १।२।४७। इति ह्रस्वः। सम्यक् शोधकेन कर्मणा (पुनाति) शोधयति ॥
इस भाष्य को एडिट करें