अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 23
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम्। श॒तं जीव॑न्तः श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥
स्वर सहित पद पाठइ॒मम् । जी॒वेभ्य॑: । प॒रि॒ऽधिम् । द॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप॑र: । अर्थ॑म् । ए॒तम् । श॒तम् । जीव॑न्त: । श॒रद॑: । पु॒रू॒ची: । ति॒र: । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व॑तेन ॥२.२३॥
स्वर रहित मन्त्र
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम्। शतं जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ॥
स्वर रहित पद पाठइमम् । जीवेभ्य: । परिऽधिम् । दधामि । मा । एषाम् । नु । गात् । अपर: । अर्थम् । एतम् । शतम् । जीवन्त: । शरद: । पुरूची: । तिर: । मृत्युम् । दधताम् । पर्वतेन ॥२.२३॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(इमम्) प्रत्यक्षम् (जीवेभ्यः) प्राणधारकेभ्यः (परिधिम्) मर्यादाम् (एषाम्) जीवानां मध्ये (नु) सद्यः (मा गात्) न प्राप्नुयात् (अपरः) अन्यः। दुर्बलेन्द्रियः (अर्थम्) उषिकुषिगार्तिभ्यस्थन्। उ० २।४। ऋ गतौ−थन्। गन्तव्यम्। प्राप्तव्यं पदार्थसुखम् (एतम्) (शतम्) (जीवन्तः) प्राणान् धारयन्तः (शरदः) संवत्सरान् (पुरूचीः) बहूनि सर्वाण्यञ्चन्तीः (तिरो दधताम्) तिरोहितं कुर्वन्तु (मृत्युम्) (पर्वतेन) भृमृदृशियजिपर्वि०। उ० ३।११०। पर्व पूरणे−अतच्। ज्ञानपूर्त्या। ब्रह्मचर्यादिना ॥
इस भाष्य को एडिट करें