अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 46
सूक्त - भृगुः
देवता - अग्निः
छन्दः - एकावसाना द्विपदा साम्नी त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
सर्वा॑नग्ने॒ सह॑मानः स॒पत्ना॒नैषा॒मूर्जं॑ र॒यिम॒स्मासु॑ धेहि ॥
स्वर सहित पद पाठसर्वा॑न् । अ॒ग्ने॒ । सह॑मान: । स॒ऽपत्ना॑न्। आ । ए॒षा॒म् । ऊर्ज॑म् । र॒यिम् । अ॒स्मासु॑ । धे॒हि॒ ॥२.४६॥
स्वर रहित मन्त्र
सर्वानग्ने सहमानः सपत्नानैषामूर्जं रयिमस्मासु धेहि ॥
स्वर रहित पद पाठसर्वान् । अग्ने । सहमान: । सऽपत्नान्। आ । एषाम् । ऊर्जम् । रयिम् । अस्मासु । धेहि ॥२.४६॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 46
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४६−(सर्वान्) (अग्ने) हे ज्ञानस्वरूप परमात्मन् (सहमानः) अभिभवन् (सपत्नान्) शत्रून् (आ) समन्तात् (एषाम्) शत्रूणाम् (ऊर्जम्) अन्नम् (रयिम्) धनम् (अस्मासु) धार्मिकेषु (धेहि) धारय ॥
इस भाष्य को एडिट करें