Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 5
    सूक्त - भृगुः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    यत्त्वा॑ क्रु॒द्धाः प्र॑च॒क्रुर्म॒न्युना॒ पुरु॑षे मृ॒ते। सु॒कल्प॑मग्ने॒ तत्त्वया॒ पुन॒स्त्वोद्दी॑पयामसि ॥

    स्वर सहित पद पाठ

    यत् । त्वा॒ । क्रु॒ध्दा: । प्र॒ऽच॒क्रु: । म॒न्युना॑ । पुरु॑षे । मृ॒ते । सु॒ऽकल्प॑म् । अ॒ग्ने॒ । तत् । त्वया॑ । पुन॑: । त्वा॒ । उत् । दी॒प॒या॒म॒सि॒ ॥२.५॥


    स्वर रहित मन्त्र

    यत्त्वा क्रुद्धाः प्रचक्रुर्मन्युना पुरुषे मृते। सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि ॥

    स्वर रहित पद पाठ

    यत् । त्वा । क्रुध्दा: । प्रऽचक्रु: । मन्युना । पुरुषे । मृते । सुऽकल्पम् । अग्ने । तत् । त्वया । पुन: । त्वा । उत् । दीपयामसि ॥२.५॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 5

    टिप्पणीः - ५−(यत्) यदि (त्वा) अपराधिनम् (क्रुद्धाः) कुपिताः (प्रचक्रुः) बहिष्कृतवन्तः (मन्युना) कोपेन (पुरुषे) (मृते) मरणं गते (सुकल्पम्) सुसंकल्पं विधानम् (अग्ने) हे अग्निवत्सन्तापक (तत्) कर्म (त्वया) अपराधिना सह (पुनः) पश्चात् (त्वा) (उद्दीपयामसि) उत्तेजयामः सुकर्मणे ॥

    इस भाष्य को एडिट करें
    Top