Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 24
    सूक्त - भृगुः देवता - मृत्युः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ स्थ। तान्व॒स्त्वष्टा॑ सु॒जनि॑मा स॒जोषाः॒ सर्व॒मायु॑र्नयतु॒ जीव॑नाय ॥

    स्वर सहित पद पाठ

    आ । रो॒ह॒त॒ । आयु॑: । ज॒रस॑म् । वृ॒णा॒ना: । अ॒नु॒ऽपू॒र्वम् । यत॑माना: । यति॑ । स्थ । तान् । व॒: । त्वष्टा॑ । सु॒ऽजनि॑मा । स॒ऽजोषा॑: । सर्व॑म् । आयु॑: । न॒य॒तु॒ । जीव॑नाय ॥२.२४॥


    स्वर रहित मन्त्र

    आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति स्थ। तान्वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ॥

    स्वर रहित पद पाठ

    आ । रोहत । आयु: । जरसम् । वृणाना: । अनुऽपूर्वम् । यतमाना: । यति । स्थ । तान् । व: । त्वष्टा । सुऽजनिमा । सऽजोषा: । सर्वम् । आयु: । नयतु । जीवनाय ॥२.२४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 24

    टिप्पणीः - २४−(आ रोहत) अधितिष्ठत (आयुः) जीवनम् (जरसम्) अ० १।३०।३। जॄ स्तुतौ−असुन्, जरस्−अर्शआद्यच्। जरया स्तुत्या युक्तम्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः−निरु० १०।८। (वृणानाः) संभजमानाः (अनुपूर्वम्) यथाक्रमम् (यतमानाः) प्रयत्नं कुर्वन्तः (यति) यत्−छान्दसो डतिः। यत्संख्याकाः। यावन्तः (स्थ) भवथ (तान्) तादृशान् (वः) युष्मान् (त्वष्टा) कर्ता परमेश्वरः (सुजनिमा) जनिमृङ्भ्यामिमनिन्। उ० ४।१४९। जन जनने प्रादुर्भावे च−इमनिन्। शोभनानि कीर्तनस्मरणादिना सुखहेतुभूतानि जनिमानि जन्मानि यस्मात् तादृशः (सजोषाः) समानप्रीतिः (सर्वम्) सम्पूर्णम् (आयुः) जीवनम् (नयतु) प्रापयतु (जीवनाय) उत्तमजीवनप्राप्तये ॥

    इस भाष्य को एडिट करें
    Top