अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 26
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अश्म॑न्वती रीयते॒ सं र॑भध्वं वी॒रय॑ध्वं॒ प्र त॑रता सखायः। अत्रा॑ जहीत॒ ये अस॑न्दु॒रेवा॑ अनमी॒वानुत्त॑रेमाभि॒ वाजा॑न् ॥
स्वर सहित पद पाठअश्म॑न्ऽवती । री॒य॒ते॒ । सम् । र॒भ॒ध्व॒म् । वी॒रय॑ध्वम् । प्र । त॒र॒त॒ । स॒खा॒य॒: । अत्र॑ । ज॒ही॒त॒ । ये । अस॑न् । दु॒:ऽएवा॑ । अ॒न॒मी॒वान् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥२.२६॥
स्वर रहित मन्त्र
अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः। अत्रा जहीत ये असन्दुरेवा अनमीवानुत्तरेमाभि वाजान् ॥
स्वर रहित पद पाठअश्मन्ऽवती । रीयते । सम् । रभध्वम् । वीरयध्वम् । प्र । तरत । सखाय: । अत्र । जहीत । ये । असन् । दु:ऽएवा । अनमीवान् । उत् । तरेम । अभि । वाजान् ॥२.२६॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २६−(अश्मन्वती) बहुपाषाणवती नदी (रीयते) गच्छति (सं रभध्वम्) मिलित्वा साहसं कुरुत (वीरयध्वम्) वीरकर्म कुरुत (प्र) प्रकर्षेण (तरत) उल्लङ्घयत (सखायः) हे सुहृदः (अत्र) अस्मिन् स्थाने समये वा (जहीत) त्यजत। पारयत (ये) (असन्) लेटि रूपम्। भवन्तु (दुरेवाः) दुर्गमा मार्गाः। विघ्नाः (अनमीवान्) रोगरहितान् (उत्तरेम) पारयेम (अभि) अभिलक्ष्य (वाजान्) अन्नादिभोगान् ॥
इस भाष्य को एडिट करें