अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 51
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
येश्र॒द्धा ध॑नका॒म्या क्र॒व्यादा॑ स॒मास॑ते। ते वा अ॒न्येषां॑ कु॒म्भीं प॒र्याद॑धति सर्व॒दा ॥
स्वर सहित पद पाठये । अ॒श्र॒ध्दा: । ध॒न॒ऽका॒म्या । क्र॒व्य॒ऽअदा॑ । स॒म्ऽआस॑ते । ते । वै । अ॒न्येषा॑म् । कु॒म्भीम् । प॒रि॒ऽआद॑धति । स॒र्व॒दा ॥२.५१॥
स्वर रहित मन्त्र
येश्रद्धा धनकाम्या क्रव्यादा समासते। ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥
स्वर रहित पद पाठये । अश्रध्दा: । धनऽकाम्या । क्रव्यऽअदा । सम्ऽआसते । ते । वै । अन्येषाम् । कुम्भीम् । परिऽआदधति । सर्वदा ॥२.५१॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 51
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५१−(ये पुरुषाः) (अश्रद्धाः) श्रद्धाहीनाः (धनकाम्या) वसिवपियजि०। उ० ४।२५। कमु कान्तौ−इञ्। धनस्य कामनया (क्रव्यादा) मांसभक्षकेण पापेन सह (समासते) मिलित्वा तिष्ठन्ति (ते) पुरुषाः (वै) निश्चयेन (अन्येषाम्) (कुम्भीम्) उखाम्। स्थालीम् (पर्य्यादधति) चुल्लिप्रदेशे स्थापयन्ति (सर्वदा) ॥
इस भाष्य को एडिट करें