Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 32
    सूक्त - भृगुः देवता - मृत्युः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    व्याक॑रोमि ह॒विषा॒हमे॒तौ तौ ब्रह्म॑णा॒ व्यहं क॑ल्पयामि। स्व॒धां पि॒तृभ्यो॑ अ॒जरां॑ कृणोमि दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥

    स्वर सहित पद पाठ

    वि॒ऽअक॑रोमि । ह॒विषा॑ । अ॒हम् । ए॒तो । तौ । ब्रह्म॑णा । वि । अ॒हम् । क॒ल्प॒या॒मि॒ । स्व॒धाम् । पि॒तृऽभ्य॑: । अ॒जरा॑म् । कृ॒णोमि॑ । दी॒र्घेण॑ । आयु॑षा । सम् । इ॒मान् । सृ॒जा॒मि॒ ॥२.३२॥


    स्वर रहित मन्त्र

    व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि। स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि ॥

    स्वर रहित पद पाठ

    विऽअकरोमि । हविषा । अहम् । एतो । तौ । ब्रह्मणा । वि । अहम् । कल्पयामि । स्वधाम् । पितृऽभ्य: । अजराम् । कृणोमि । दीर्घेण । आयुषा । सम् । इमान् । सृजामि ॥२.३२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 32

    टिप्पणीः - ३२−(व्याकरोमि) व्याख्यातौ करोमि (हविषा) दातव्यग्राह्यकर्मणा (अहम्) परमेश्वरः (एतौ) दृश्यमानौ स्त्रीपुरुषसमूहौ (तौ) (ब्रह्मणा) वेदज्ञानेन (वि) विविधम् (अहम्) (कल्पयामि) समर्थयामि (स्वधाम्) आत्मधारणशक्तिम् (पितृभ्यः) रक्षकेभ्यो विद्वद्भ्यः (अजराम्) अक्षीणाम् (कृणोमि) करोमि (दीर्घेण) (आयुषा) जीवनेन (इमान्) पितॄन् (सं सृजामि) संयोजयामि ॥

    इस भाष्य को एडिट करें
    Top