Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 30
    सूक्त - भृगुः देवता - मृत्युः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    मृ॒त्योः प॒दं यो॒पय॑न्त॒ एत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः। आसी॑ना मृ॒त्युं नु॑दता स॒धस्थेऽथ॑ जी॒वासो॑ वि॒दथ॒मा व॑देम ॥

    स्वर सहित पद पाठ

    मृ॒त्यो: । प॒दम् । यो॒पय॑न्त: । आ । इ॒त॒ । द्राघी॑य: ।आयु॑: । प्र॒ऽत॒रम् । दधा॑ना: । आसी॑ना: । मृ॒त्युम् । नु॒द॒त॒ । स॒धऽस्थे॑ । अथ॑ । जी॒वास॑: । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥२.३०॥


    स्वर रहित मन्त्र

    मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः। आसीना मृत्युं नुदता सधस्थेऽथ जीवासो विदथमा वदेम ॥

    स्वर रहित पद पाठ

    मृत्यो: । पदम् । योपयन्त: । आ । इत । द्राघीय: ।आयु: । प्रऽतरम् । दधाना: । आसीना: । मृत्युम् । नुदत । सधऽस्थे । अथ । जीवास: । विदथम् । आ । वदेम ॥२.३०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 30

    टिप्पणीः - ३०−(मृत्योः) (पदम्) गमनम् (योपयन्तः) विमोहयन्तः निरोधयन्तः (एत) आगच्छत (द्राघीयः) दीर्घतरम् (आयुः) जीवनम् (प्रतरम्) प्रकृष्टतरम् (दधानाः) धारयन्तः (आसीनाः) उपविशन्तः (मृत्युम्) (नुदत) प्रेरयत (सधस्थे) सहस्थाने। समाजे (अथ) अनन्तरम् (जीवासः) जीवाः। जीवन्तः (विदथम्) ज्ञानम् (आवदेम) उपदिशेम ॥

    इस भाष्य को एडिट करें
    Top