अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 10
सूक्त - भृगुः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
क्र॒व्याद॑म॒ग्निं श॑शमा॒नमु॒क्थ्यं प्र हि॑णोमि प॒थिभिः॑ पितृ॒याणैः॑। मा दे॑व॒यानैः॒ पुन॒रा गा॒ अत्रै॒वैधि॑ पि॒तृषु॑ जागृहि॒ त्वम् ॥
स्वर सहित पद पाठक्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । श॒श॒मा॒नम् । उ॒क्थ्य᳡म् । प्र । हि॒णो॒मि॒ । प॒थिऽभि॑: । पि॒तृ॒ऽयानै॑: । मा । दे॒व॒ऽयानै॑: । पुन॑: । आ । गा॒: । अत्र॑ । ए॒व । ए॒धि॒ । पि॒तृषु॑ । जा॒गृ॒हि॒ । त्वम् ॥२.१०॥
स्वर रहित मन्त्र
क्रव्यादमग्निं शशमानमुक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः। मा देवयानैः पुनरा गा अत्रैवैधि पितृषु जागृहि त्वम् ॥
स्वर रहित पद पाठक्रव्यऽअदम् । अग्निम् । शशमानम् । उक्थ्यम् । प्र । हिणोमि । पथिऽभि: । पितृऽयानै: । मा । देवऽयानै: । पुन: । आ । गा: । अत्र । एव । एधि । पितृषु । जागृहि । त्वम् ॥२.१०॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(क्रव्यादम्) मांसभक्षकम् (अग्निम्) अग्निवत् सन्तापकं पुरुषम् (शशमानम्) शश प्लुतगतौ−चानश्। उत्प्लुत्य गन्तारम्। उद्योगिनम् (उक्थ्यम्) अ० ७।४७।१। अकथितं च। पा० १।४।५१। इति कर्मसंज्ञा। प्रशस्यात् (प्र) (हिणोमि) गमयामि (पथिभिः) मार्गैः (पितृयाणैः) पालकैर्गन्तव्यैः (देवयानैः) विदुषां मार्गैः (पुनः) पश्चात् (मा आ गाः) नैवागच्छ (अत्र) (एव) (एधि) भव। वर्तस्व (पितृषु) पालकेषु (जागृहि) सावधानो भव (त्वम्) ॥
इस भाष्य को एडिट करें