Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 45
    सूक्त - भृगुः देवता - अग्निः छन्दः - जगती सूक्तम् - यक्ष्मारोगनाशन सूक्त

    जी॒वाना॒मायुः॒ प्र ति॑र॒ त्वम॑ग्ने पितॄ॒णां लो॒कमपि॑ गच्छन्तु॒ ये मृ॒ताः। सु॑गार्हप॒त्यो वि॒तप॒न्नरा॑तिमु॒षामु॑षां॒ श्रेय॑सीं धेह्य॒स्मै ॥

    स्वर सहित पद पाठ

    जी॒वाना॑म् । आयु॑: । प्र । ति॒र॒ । त्वम् । अ॒ग्ने॒ । पि॒तॄ॒णाम् । लो॒कम् । अपि॑ । ग॒च्छ॒न्तु॒ । ये । मृ॒ता: । सु॒ऽगा॒र्ह॒प॒त्य: । वि॒ऽतप॑न् । अरा॑तिम् । उ॒षाम्ऽउ॒षाम् । श्रेय॑सीम् । धे॒हि॒ । अ॒स्मै ॥२.४५॥


    स्वर रहित मन्त्र

    जीवानामायुः प्र तिर त्वमग्ने पितॄणां लोकमपि गच्छन्तु ये मृताः। सुगार्हपत्यो वितपन्नरातिमुषामुषां श्रेयसीं धेह्यस्मै ॥

    स्वर रहित पद पाठ

    जीवानाम् । आयु: । प्र । तिर । त्वम् । अग्ने । पितॄणाम् । लोकम् । अपि । गच्छन्तु । ये । मृता: । सुऽगार्हपत्य: । विऽतपन् । अरातिम् । उषाम्ऽउषाम् । श्रेयसीम् । धेहि । अस्मै ॥२.४५॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 45

    टिप्पणीः - ४५−(जीवानाम्) जीवताम्। पुरुषार्थिनाम् (आयुः) जीवनम् (प्रतर) प्रवर्धय (त्वम्) (अग्ने) हे ज्ञानस्वरूप परमेश्वर (पितॄणाम्) पालकानाम्। विदुषाम् (लोकम्) समाजम् (अपि) एव (गच्छन्तु) प्राप्नुवन्तु (ये) (मृताः) त्यक्तप्राणाः। पुरुषार्थहीनाः (सुगार्हपत्यः) विद्वद्भिर्गृहपतिभिः संयुक्तः (वितपन्) विविधं दहन् (अरातिम्) शत्रुम् (उषामुषाम्) प्रत्युषम् (श्रेयसीम्) अधिकश्रेयस्करीम् (धेहि) धारय (अस्मै) उपासकाय ॥

    इस भाष्य को एडिट करें
    Top