अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 52
सूक्त - भृगुः
देवता - अग्निः
छन्दः - पुरस्ताद्विराड्बृहती
सूक्तम् - यक्ष्मारोगनाशन सूक्त
प्रेव॑ पिपतिषति॒ मन॑सा॒ मुहु॒रा व॑र्तते॒ पुनः॑। क्र॒व्याद्यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान्वि॒ताव॑ति ॥
स्वर सहित पद पाठप्रऽइ॑व । पि॒प॒ति॒ष॒ति॒ । मन॑सा । मुहु॑: । आ । व॒र्त॒ते॒ । पुन॑: । क्र॒व्य॒ऽअत् । यान् । अ॒ग्नि: । अ॒न्ति॒कात् । अ॒नु॒ऽवि॒द्वान् । वि॒ऽताव॑ति ॥२.५२॥
स्वर रहित मन्त्र
प्रेव पिपतिषति मनसा मुहुरा वर्तते पुनः। क्रव्याद्यानग्निरन्तिकादनुविद्वान्वितावति ॥
स्वर रहित पद पाठप्रऽइव । पिपतिषति । मनसा । मुहु: । आ । वर्तते । पुन: । क्रव्यऽअत् । यान् । अग्नि: । अन्तिकात् । अनुऽविद्वान् । विऽतावति ॥२.५२॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 52
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५२−(प्र इव) प्रकर्षेण गच्छन् यथा (पिपतिषति) पत्लृ गतौ ऐश्वर्ये च−सन्। ऐश्वर्यवान् भवितुमिच्छति (मनसा) चित्तेन (मुहः) वारंवारम् (आ वर्तते) आगत्य वर्तते (पुनः) पश्चात्। अन्यत् पूर्ववत्−म० ३८ ॥
इस भाष्य को एडिट करें