अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 9
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुब्गर्भा विपरीतपादलक्ष्मा पङ्क्तिः
सूक्तम् - यक्ष्मारोगनाशन सूक्त
क्र॒व्याद॑म॒ग्निमि॑षि॒तो ह॑रामि॒ जना॑न्दृं॒हन्तं॒ वज्रे॑ण मृ॒त्युम्। नि तं शा॑स्मि॒ गार्ह॑पत्येन वि॒द्वान्पि॑तॄ॒णां लो॒केऽपि॑ भा॒गो अ॑स्तु ॥
स्वर सहित पद पाठक्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । इ॒षि॒त: । ह॒रा॒मि॒ । जना॑न् । दृं॒हन्त॑म् । वज्रे॑ण । मृ॒त्युम् । नि । तम् । शा॒स्मि॒ । गार्ह॑ऽपत्येन । वि॒द्वान् । पि॒तॄ॒णाम् । लो॒के । अपि॑ । भा॒ग: । अ॒स्तु॒ ॥२.९॥
स्वर रहित मन्त्र
क्रव्यादमग्निमिषितो हरामि जनान्दृंहन्तं वज्रेण मृत्युम्। नि तं शास्मि गार्हपत्येन विद्वान्पितॄणां लोकेऽपि भागो अस्तु ॥
स्वर रहित पद पाठक्रव्यऽअदम् । अग्निम् । इषित: । हरामि । जनान् । दृंहन्तम् । वज्रेण । मृत्युम् । नि । तम् । शास्मि । गार्हऽपत्येन । विद्वान् । पितॄणाम् । लोके । अपि । भाग: । अस्तु ॥२.९॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(क्रव्यादम्) मांसभक्षकम् (अग्निम्) अग्निवत्सन्तापकं पुरुषम् (इषितः) प्रजाभिः प्रेषितो नियोजितः (हरामि) नाशयामि (जनान्) अकथितं च। पा० १।४।५१। इति कर्मसंज्ञा। जनेषु (दृंहन्तम्) वर्धयन्तम् (वज्रेण) शस्त्रेण (मृत्युम्) मरणम् (नि) नितराम् (तम्) सत्कर्माणम् (शास्मि) शिक्षयामि (गार्हपत्येन) अ० ६।१२०।१। गृहपति−ञ्य गृहपतिभिः संयुक्तेन संबद्धेन कर्मणा (विद्वान्) (पितॄणाम्) पालकानां विदुषाम् (लोके) समाजे (अपि) एव (भागः) सेवनीयोंऽशः (अस्तु) भवतु ॥
इस भाष्य को एडिट करें