Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 28
    सूक्त - भृगुः देवता - मृत्युः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    वै॑श्वदे॒वीं वर्च॑सा॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः। अ॑ति॒क्राम॑न्तो दुरि॒ता प॒दानि॑ श॒तं हिमाः॒ सर्व॑वीरा मदेम ॥

    स्वर सहित पद पाठ

    वै॒श्व॒ऽदे॒वीम् । वर्च॑से । आ । र॒भ॒ध्व॒म् । शु॒ध्दा: । भव॑न्त: । शुच॑य: । पा॒व॒का: । अ॒ति॒ऽक्राम॑न्त: । दु॒:ऽइ॒ता । प॒दानि॑ । श॒तम् । हिमा॑: । सर्व॑ऽवीरा: । म॒दे॒म॒ ॥२.२८॥


    स्वर रहित मन्त्र

    वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः। अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥

    स्वर रहित पद पाठ

    वैश्वऽदेवीम् । वर्चसे । आ । रभध्वम् । शुध्दा: । भवन्त: । शुचय: । पावका: । अतिऽक्रामन्त: । दु:ऽइता । पदानि । शतम् । हिमा: । सर्वऽवीरा: । मदेम ॥२.२८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 28

    टिप्पणीः - २८−(वैश्वदेवीम्) तस्मै हितम्। पा० ५।१।५। विश्वदेव−अण्, ङीप्। सर्वेभ्यो विद्वद्भ्यो हिताम् (वर्चसे) तेजसे (आरभध्वम्) आरम्भं कुरुत (शुद्धाः) (भवन्तः) सन्तः (शुचयः) (पावकाः) संशोधकाः (अतिक्रामन्तः) उल्लङ्घयन्तः (दुरिता) दुर्गतानि। कष्टप्रदानि (पदानि) पदचिह्नानि। क्षुद्रमार्गान् (शतम्) (हिमाः) हिम+अर्शआद्यच्, टाप्। शीतकालयुक्ताः स्थितीः (सर्ववीराः) सर्ववीरोपेताः (मदेम) हृष्येम ॥

    इस भाष्य को एडिट करें
    Top