अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 20
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
सीसे॒ मलं॑ सादयि॒त्वा शी॑र्ष॒क्तिमु॑प॒बर्ह॑णे। अव्या॒मसि॑क्न्यां मृ॒ष्ट्वा शु॒द्धा भ॑वत य॒ज्ञियाः॑ ॥
स्वर सहित पद पाठसीसे॑ । मल॑म् । सा॒द॒यि॒त्वा । शी॒र्ष॒क्तिम् । उ॒प॒ऽबर्ह॑णे । अव्या॑म् । असि॑क्न्याम् । मृ॒ष्ट्वा । शु॒ध्दा: । भ॒व॒त॒ । य॒ज्ञिया॑: ॥२.२०॥
स्वर रहित मन्त्र
सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे। अव्यामसिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ॥
स्वर रहित पद पाठसीसे । मलम् । सादयित्वा । शीर्षक्तिम् । उपऽबर्हणे । अव्याम् । असिक्न्याम् । मृष्ट्वा । शुध्दा: । भवत । यज्ञिया: ॥२.२०॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(सीसे) म० १। बन्धननाशके विधाने (मलम्) दोषम् (सादयित्वा) षद्लृ विशरणगत्यवसादनेषु−णिचि−क्त्वा। नाशयित्वा (शीर्षक्तिम्) म० १९। शिरःपीडाम् (उपबर्हणे) म० १९। सुवृद्धौ (अव्याम्) म० १९। रक्षिकायां प्रकृतौ (असिक्न्याम्) अ० १।२३।१। अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति षिञ् बन्धने−क्त। छन्दसि क्नमित्येके। वा० पा० ४।१।३९। इति असित−ङीप्, तकारस्य क्नः। असितायाम्। अबद्धायाम् (मृष्ट्वा) शोधयित्वा (शुद्धाः) पवित्राः (भवत) (यज्ञियाः) संगतियोग्याः ॥
इस भाष्य को एडिट करें