अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 49
सूक्त - भृगुः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अ॑होरा॒त्रे अन्वे॑षि॒ बिभ्र॑त्क्षे॒म्यस्तिष्ठ॑न्प्र॒तर॑णः सु॒वीरः॑। अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि ॥
स्वर सहित पद पाठअ॒हो॒रा॒त्रे इति॑ । अनु॑ । ए॒षि॒ । बिभ्र॑त् । क्षे॒म्य: । तिष्ठ॑न् । प्र॒ऽतर॑ण: । सु॒ऽवीर॑: । अना॑तुरान् । सु॒ऽमन॑स: । त॒ल्प॒ । बिभ्र॑त् । ज्योक् । ए॒व । न॒: । पुरु॑षऽगन्धि: । ए॒धि॒ ॥२.४९॥
स्वर रहित मन्त्र
अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन्प्रतरणः सुवीरः। अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥
स्वर रहित पद पाठअहोरात्रे इति । अनु । एषि । बिभ्रत् । क्षेम्य: । तिष्ठन् । प्रऽतरण: । सुऽवीर: । अनातुरान् । सुऽमनस: । तल्प । बिभ्रत् । ज्योक् । एव । न: । पुरुषऽगन्धि: । एधि ॥२.४९॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 49
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४९−(अहोरात्रे) रात्रिदिने (अनु) निरन्तरम् (एषि) गच्छसि। व्याप्नोषि (बिभ्रत्) धारयन् (क्षेम्यः) सकुशलः (तिष्ठन्) वर्तमानः (प्रतरणः) प्रवर्धनः (सुवीरः) महावीरः (अनातुरान्) नीरोगान् (सुमनसः) प्रसन्नचित्तान् (तल्प) खष्पशिल्पशष्प०। उ० ३।२८। तल प्रतिष्ठाकरणे−प प्रत्ययः। हे प्रतिष्ठाप्रद परमेश्वर ! (बिभ्रत्) धारयन् (ज्योक्) चिरकालम् (नः) अस्मान् (पुरुषगन्धिः) सर्वधातुभ्य इन्। उ० ४।११८। पुरुष+गन्ध अर्दने, गतौ, याचने शोभने च−इन्। पुरुषान् गन्धयते शोभयते यः स परमेश्वरः (एधि) भव ॥
इस भाष्य को एडिट करें