Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 50
    सूक्त - भृगुः देवता - अग्निः छन्दः - उपरिष्टाद्विराड्बृहती सूक्तम् - यक्ष्मारोगनाशन सूक्त

    ते दे॒वेभ्य॒ आ वृ॑श्चन्ते पा॒पं जी॑वन्ति सर्व॒दा। क्र॒व्याद्यान॒ग्निर॑न्ति॒कादश्व॑ इवानु॒वप॑ते न॒डम् ॥

    स्वर सहित पद पाठ

    ते । दे॒वेभ्य॑: । आ । वृ॒श्च॒न्ते॒ । पा॒पम् । जी॒व॒न्ति॒ । स॒र्व॒दा । क्र॒व्य॒ऽअत् । यान् ।‍ अ॒ग्नि: । अ॒न्ति॒कात् । अश्व॑:ऽइव । अ॒नु॒ऽवप॑ते । न॒डम् ॥२.५०॥


    स्वर रहित मन्त्र

    ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा। क्रव्याद्यानग्निरन्तिकादश्व इवानुवपते नडम् ॥

    स्वर रहित पद पाठ

    ते । देवेभ्य: । आ । वृश्चन्ते । पापम् । जीवन्ति । सर्वदा । क्रव्यऽअत् । यान् ।‍ अग्नि: । अन्तिकात् । अश्व:ऽइव । अनुऽवपते । नडम् ॥२.५०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 50

    टिप्पणीः - ५०−(ते) मनुष्याः (देवेभ्यः) विद्वत्सकाशात् (आ) समन्तात् (वृश्चन्ते) वृश्च्यन्ते। छिद्यन्ते। पृथग् भवन्ति (पापम्) यथा तथा, पापेन (जीवन्ति) (सर्वदा) (क्रव्यात्) मांसभक्षकः (यान्) पुरुषान् (अग्निः) अग्निवत्सन्तापको दोषः (अन्तिकात्) समीपात् (अश्वः) (इव) (अनुवपते) निरन्तरं मुण्डयति छिनत्ति (नडम्) तृणविशेषम् ॥

    इस भाष्य को एडिट करें
    Top