अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 34
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अ॑पा॒वृत्य॒ गार्ह॑पत्यात्क्र॒व्यादा॒ प्रेत॑ दक्षि॒णा। प्रि॒यं पि॒तृभ्य॑ आ॒त्मने॑ ब्र॒ह्मभ्यः॑ कृणुता प्रि॒यम् ॥
स्वर सहित पद पाठअ॒प॒ऽआ॒वृत्य॑ । गार्ह॑ऽपत्यात् । क्र॒व्य॒ऽअदा॑ । प्र । इ॒त॒ । द॒क्षि॒णा । प्रि॒यम् । पि॒तृऽभ्य॑: । आ॒त्मने॑ । ब्र॒ह्मऽभ्य॑: । :कृ॒णु॒त॒ । प्रि॒यम् ॥२.३४॥
स्वर रहित मन्त्र
अपावृत्य गार्हपत्यात्क्रव्यादा प्रेत दक्षिणा। प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ॥
स्वर रहित पद पाठअपऽआवृत्य । गार्हऽपत्यात् । क्रव्यऽअदा । प्र । इत । दक्षिणा । प्रियम् । पितृऽभ्य: । आत्मने । ब्रह्मऽभ्य: । :कृणुत । प्रियम् ॥२.३४॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 34
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३४−(अपावृत्य) पृथग् भूत्वा (गार्हपत्यात्) गृहपतिना संयुक्तात् प्रबोधात् प्रतिकूलवर्तमानेन (क्रव्यादा) मांसभक्षकेण अज्ञानेन (प्रेत) प्रकर्षेण गच्छत (दक्षिणा) दक्षिणादाच्। पा० ५।३।३६। दक्षिण−आच्। सरले वृद्धिकारके वा मार्गे (प्रियम्) रुचिरम् (पितृभ्यः) पालकेभ्यः (आत्मने) स्वस्मै (ब्रह्मभ्यः) वेदविद्भ्यः (कृणुत) कुरुत (प्रियम्) तृप्तिकरम् ॥
इस भाष्य को एडिट करें