अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 14
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
संक॑सुको॒ विक॑सुको निरृ॒थो यश्च॑ निस्व॒रः। ते ते॒ यक्ष्मं॒ सवे॑दसो दू॒राद्दू॒रम॑नीनशन् ॥
स्वर सहित पद पाठसम्ऽक॑सुक: । विऽक॑सुक: । नि॒:ऽऋ॒थ: । य: । च॒ । नि॒ऽस्व॒र: । ते । ते॒ । यक्ष्म॑म् । सऽवे॑दस: । दू॒रात् । दू॒रम् । अ॒नी॒न॒श॒न् ॥२.१४॥
स्वर रहित मन्त्र
संकसुको विकसुको निरृथो यश्च निस्वरः। ते ते यक्ष्मं सवेदसो दूराद्दूरमनीनशन् ॥
स्वर रहित पद पाठसम्ऽकसुक: । विऽकसुक: । नि:ऽऋथ: । य: । च । निऽस्वर: । ते । ते । यक्ष्मम् । सऽवेदस: । दूरात् । दूरम् । अनीनशन् ॥२.१४॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(संकसुकः) म० ११। सम्यक् शासकः (विकसुकः) म० ११। विशेषेण शासकः (निर्ऋथः) अर्तेनिरि उ० २।८। निर्+ऋ गतौ−थक्। निरन्तरज्ञानवान् (यः) पुरुषः (च) (निस्वरः) नित्योपदेशकः (ते) पूर्वोक्ताः (ते) तव (यक्ष्मम्) राजरोगम् (सवेदसः) विद्लृ लाभे−डसुन्। समानानि वेदांसि लाभा येभ्यस्ते। समानलाभप्रापकाः (दूरात्) (दूरम्) (अनीनशन्) अ० १।२४।२। नाशितवन्तः ॥
इस भाष्य को एडिट करें